SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । विद्युल्लता यदि पथि प्रतिरोधिनी स्यादप्रावृतैव कनकद्रवगौरि गच्छेः ॥' इत्यादौ व्यङ्ग्यसामान्यम् । आवरणाभावे विद्युदभावे तव ज्ञानं भविष्यतीति प्रतीतेः ॥ ननु भ्रान्तिमदपेक्षया नेदमतिरिक्तम् । अत्रापि यावत्स्वविशेष्यावृत्ति - धर्मप्रकारकत्वसत्त्वात् । तथा हि । इयं कस्तूरी इति ज्ञानविशेष्यमत्र कस्तूरी भृङ्गश्च । तत्र यद्यप्येकविशेष्ये कस्तूर्यं तद्वृत्तिकस्तूरीत्वप्रकारकं ज्ञानं न भ्रान्तिस्तथापि भृङ्गरूपविशेष्यावृत्ति यत्कस्तूरीत्वं तत्प्रकारकत्वस्यापि सत्त्वेन भ्रान्तित्वानपायात् । यथा शुक्तिरजतयोः इदं रजतम् इति ज्ञानं रजतांशे प्रभारूपमपि शुक्त्यंशे भ्रान्तिरिति चेत् ॥ सत्यम् । अस्तुनामास्य भ्रान्तित्वं तथापि तस्या नालंकारत्वम् । तदभाववन्मात्रविशेष्यकतद्धर्मावच्छिन्नप्रकारताकज्ञानस्यैवालंकारत्वेन स्वीकारात् । किं च । चमत्कारकारणतावच्छेदकरूपस्यैवालंकारविभाजकोपाधित्वम् । इह च भ्रान्तित्वावच्छिन्नकारणतानिरूपितकार्यताको न चमत्कारो विवक्षितः । किं तु अत्यन्तसाधर्म्येण एकधर्मिणोऽन्यधर्मिप्रतियोगिकभेदवत्तयानुपस्थितिजन्य एवेति विभाजकोपाधिभेदात् । केचित्तु – भ्रान्तिमति स्मर्यमाणारोपोऽभिमतः, अत्र त्वनुभूयमानारो' पणमेवेति सांकर्यमित्याहुः || अथ तथापि मीलितालंकारादस्य भेदकं दुर्वचम् | यत्तु दीक्षिताः -- मीलितालंकारे एकेनापरस्याभिन्नखरूपानवभासरूपं मीलनं क्रियते । सामान्यालंकारे तु भिन्नखरूपावभासेऽपि व्यावर्तकविशेषो नोपलभ्यत इति भेदः । ३९९ 'रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ।' इत्यत्र हि चरणाद्यपेक्षया वस्त्वन्तरत्वेनागन्तुकं यावकादि न भासते इति तन्मीलितम् ॥ 'पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ।' १. 'रोप वे' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy