SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । एकाग्रं यद्दधति भगवत्युष्णभानौ च भक्ति तत्प्रापुस्ते सुतनु वदनौपम्यमम्भोरुहाणि || अत्र सादृश्यहेतुक्तिविशिष्टं तदिति विशेषः । क्वचिदुपमानस्योपमेयत्वाभिमतनिष्ठ सादृश्यप्रतियोगितानिषेधव्यञ्जनया यथा - 'कलयति कमलोपमानमक्ष्णोः प्रथयति वापि सुधारसस्य साम्यम् । सखि कथय किमाचरामि कान्ते समजनि तत्र सहिष्णुतैव दोषः ॥' अत्र सहिष्णुतादोषकीर्तनेन यथोक्तनिषेधो व्यङ्ग्यः । स एव वाच्यो यथा 'अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां रसज्ञामज्ञानां क इव कमले मन्थरयतु । वयं तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं पङ्गुरसनाः ॥ ' क्वचिदन्यस्य स्वप्रतियोगिकसादृश्याश्रयान्तराभावज्ञानवतस्तदुपमेयद र्शनेन । यथा मम -- ३९३ ‘आत्मीयप्रचलाकमाश्रितवता रूपातिभारेण किं बर्हिस्तादृशतद्विभिन्नविरहज्ञानान्नरीनृत्य से । एतद्वत्तिमनोज्ञधर्मनिवहाधारः कुरङ्गीदृशो मन्ये केशकलाप ईक्षणपथं न प्राप्तवाजील (ल्म) ते ॥' इति प्रतीपम् । सामान्यं निरूपयति स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् । यत्र कस्यचिद्वस्तुनोऽपरित्यक्तस्वगुणस्यैव स्ववृत्तिगुणसजातीयगुणाश्रयेण सहाभिन्नतया भानं तत्सामान्यम् । तद्गुणे व्यभिचारवारणाय अपरि १. 'ओोलता' ख. ५०
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy