SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३६९ जातत्वप्रकारिका कृतिरिति प्रकृते चोक्तसंबन्धेन इच्छा पृथिवीत्वे, अपारिजातत्वप्रकारककृतिः स्वर्गे इति वैयधिकरण्यस्य सत्त्वात् ॥ एवम् — 'त्वत्खगखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेऽभूत् ॥' इत्यत्रापि भूषणतासंबन्धेन कङ्कणसंयोगं प्रति भूष्यतासंबन्धेन हस्तादेरकरणतया हस्तत्व कङ्कणयोर्वैयधिकरण्यमवसेयम् । तथा 'गोत्रोद्धारप्रवृत्तोऽपि -' इत्यत्र 'मोहं जगत्रयभुवामपनेतुमेत दादाय रूपमखिलेश्वरदेहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥' इत्यत्रापि गोत्रोद्भेदे मोहप्रवृद्धौ चोद्देश्यत्वसंबन्धेन तत्तद्विषयकप्रवृत्त्योहेतुतया तदभावेऽपि कार्योक्त्या विभावनायामेवान्तर्भावसंभवान्नाधिक्यम् । व्यधिकरणत्वपदेन सामानाधिकरण्याभावमात्रस्याभिमतत्वाद्वेति दिक् ॥ इत्य संगतिः । समाधिमाह भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये । चिकीर्षितस्य कार्यस्य सिद्ध्यर्थमभिमतो यो हेतुस्तदतिरिक्तहेतुना कार्यस्य सौकर्यं समाधिः । समाधीयते कार्यमनेन इति व्युत्पत्तेः ॥ १. तत्र प्रकृतकारणसंभवे यथा 'पीअपडिअस्स पहणो पुट्ठि पुत्ते समारुहतम्मि | दढमण्णुदुण्णिआऍ वि हासो घरिणीए णेक्कन्तो ॥ ' ४७ - ' पादपतितस्य पत्युः पृष्ठं पुत्रे समारुहति । दृढमन्युनाया अपि हासो गृहिण्या निष्क्रान्तः ॥ [ गाथा ० १११]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy