________________
३५६
काव्यमाला ।
अत्र भुवनत्रयपावनोपपत्त्यर्थं त्रिपथगापदं साभिप्रायमिति । तन्न । परिकर एवान्तर्भाव संभवात् । त्रिपथगापदस्य हि गङ्गाविशेष्यकमार्गत्रयगामित्वप्रकारकबोधत्वं कार्यतावच्छेदकम् । तत्र विशेषणीभूतमार्गत्रयगामित्वांशस्यैव प्रकृतोपकारकत्वात् ।
एवम् |
'चतुर्णी पुरुषार्थानां दाता देवश्चतुर्भुजः ।' इत्यत्रापि विशेषणीभूतं भुजचतुष्टयवत्त्वमेव तथेति । 'फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः साक्षात्क्वाहमेते व ते गुणाः ॥' इत्यत्र प्रकृतोपपादकयौगिकार्थविरहात्कथं परिकरान्तर्भाव इति चेत् । तर्हि सहस्रमुखादिपदानामत्राभावात् कथं परिकराङ्कुरोऽपीत्यवधार्यताम् । सहस्रमुखत्वादौ फणीन्द्रादिपदानां तात्पर्यमिति चेत् । नूनमिदं विशेषणस्य साभिप्रायत्व एव संभवति फणीन्द्ररूपविशेषणांशेनैव तदाक्षेपात् । अतो रूढपदस्थलेऽवयवार्थस्य प्रकृतोपकारकतायां कचित्तेनैव प्रकृतोपकारकस्य विशेष्यस्य प्रतीतिः सिद्धा ।
यथा
-
'मध्ये निजस्खलनदोषमवर्जनीय
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः । आविश्य देव रसनानि महाकवीनां
देवी गिरामपि तव स्तवमातनोति ॥'
अत्र देवी गिरामित्यनेन विद्याविषयाभ्यर्हितत्वस्य सरखतीत्वेन च बोधस्य सिद्धिः ॥
यत्र रूढार्थवाचकपदान्तरमपि युज्यते तत्रावयवार्थमात्रपरत्वमेव तस्य ।
यथा
'उद्यन्मृगाङ्करुचिकन्दलकोमलानामुन्निद्रशोणनलिनोदरसोदराणाम् ।