SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३४२ काव्यमाला। घटघटत्वयोर्विशकलितत्वेन सविकल्पकत्वेन तयोर्वैशिष्टयेन प्रतीतिरिति तयोर्भेद उपपद्यते तद्वदत्रापीति न दोषः ॥ सर्वखकारस्तु-व्यङ्गयस्यैवाभिधेयत्वायोगात् गम्यस्यैव भङ्गयन्तरेणाभिधानं पर्यायोक्तमिति लक्षणानुपपत्तिमाशङ्कय भङ्गयन्तरेण कार्यादिद्वारेणाभिधानमित्यस्यार्थः । यथा'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥ अत्र राहुशिरश्छेदकारीति व्यङ्गयम् । राहुवधूसंबन्धिरतोत्सवनिष्ठचुम्बनमात्रावशिष्टनिर्मातृत्वेन रूपेणाभिहितम् । भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिधेयत्वाच्च न व्यङ्गयत्वम् । एवम् 'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥ इत्यत्रापि शक्रैरावणौ मदमानमुक्तौ जाताविति व्यङ्गये शऊरावणयोरभिधाजन्यबोधविषयत्वान्मदमानमोक्षस्यैव व्यङ्गयत्वं पर्यवस्यति । एवं च व्यङ्गयांशस्य कदापि रूपान्तरेणाभिधानाद्धय॑शस्य चाभिधेयत्वेन व्यनयत्वानहतया ब्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगतमेवेति. कार्यादिद्वारेणाभिधानमित्येव लक्षणार्थ उचित इति ॥ अभिनवगुप्तपादाचार्यास्तु-पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्गयेनोपलक्षितमुक्तमभिहितं पर्यायोक्तमिति लक्षणार्थ इत्याहुः । अत्र दीक्षिताः-उभयोरप्ययं क्लेशो व्यर्थ एव । सन्ति हि व्यङ्गयस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । यथा _ 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ।' १. 'सविकल्पके च तयो' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy