SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३३९ स्वात् । हेतुत्वं च समभिव्याहृतकार्यापेक्षमेवेति । तत्रार्थान्मुक्तिनिष्ठकार्यस्वनिरूपितत्वलाभात् ॥ नन्वनुमानान्नेदमतिरिच्यते । न च यत्र व्याप्यत्वपक्षत्वाभ्यां ज्ञायमानमुपपादकमुपयुज्यते तत्रानुमानम्, यत्र तु स्वरूपेमैव तत्र काव्यलिङ्गमिति चाच्यम् । उपपादकस्याप्युपपाद्यार्थव्यभिचाराभावात्तद्धर्मवृत्तित्वज्ञानं विनोपपादनसामर्थ्यादिति चेत् । अत्र रसगङ्गाधरकृतः-सत्यमत्रानुमितिरूपेवोपपत्तिः, तथापि नेदमनुमानालंकारः । श्रोतरि यल्लिङ्गकानुमिति बोधयितुं कविः काव्यं निर्माति तल्लिङ्गकानुमितेरेव तदलंकारत्वात् । इह तु श्रोतर्यनुमितित्वमुपपादयितुमेव काव्यनिर्माणं न तु बोधयितुम् । अपि च कविनिबन्धनप्रमात्रन्तरनिष्ठानुमितिरनुमानालंकारं प्रयोजयति, श्रोतृनिष्ठा महावाक्यार्थनिश्चयानुकूला तु काव्यलिङ्गमिति विशेष इति । वस्तुतस्तु-मानान्तरेण निर्माते साध्ये तत्राप्रामाण्यशङ्कानिरासाय यत्र तदुपपादकमुच्यते तत्र काव्यलिङ्गम् । तत्र चोपपादकस्य व्याप्यत्वपक्षधमत्वाभ्यां गृह्यमाणत्वेऽपि नानुमानत्वम्, सिध्यानुमित्युदयात् । न चैतावताप्यनुमितिकरणत्वमव्याहतमेवेति वाच्यम् । साध्यसाधकत्वायोगव्यवंच्छिन्नस्यैवात्र तथात्वेनाभिमतत्वात् । वस्तुतस्तु-उपपादकस्य निरुक्तरीत्योपयोगे व्याप्यत्वादिनानवबोध एव व्यभिचारज्ञाने सत्यपि मानान्तरसिद्धपदार्थप्रतिकूलशङ्कानिरसनसमर्थत्वात् ॥ यद्वा । व्यभिचारस्यास्फुरणे साध्यबुद्ध्या च प्रामाण्यशङ्कानिरासकत्वसंभवेऽपि व्याप्यत्वादिनाप्यज्ञायमानतयानुमितेरापादयितुमशक्यत्वात् । अत एव 'यन्नेत्रस्य समानकान्तिसलिले ममं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता ___ स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ इति काव्यलिङ्गोदाहरणमलंकारसर्वखकृतोक्तम् ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy