________________
अलंकारकौस्तुभः ।
३३७
योगित्वेनोक्तं यत्कारणं तत्प्रतियोगिककार्यतावच्छेदकम् । अत्र तु प्रागभावप्रतियोगित्वेन यत्कारणमुक्तम्, तदतिरिक्तकारणताप्रतियोगिककार्यता
वच्छेदकमिति भेद इति दिक् ॥
काव्यलिङ्गं निरूपयति
इतिभाविकम् ।
वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् ।
हेतुवचनं काव्यलिङ्गमिति लक्षणम् । वाक्यपदार्थत्वाभ्यां तस्योक्तिरिति द्वौ भेदौ । आद्यो यथा ।
३
तत्रैव तस्य हेतुत्वं संभवति । अतश्च अपराधद्वयेऽपराधवृत्तौ द्वित्वे अनमनगोचरा या अपेक्षाबुद्धिस्तद्वारा अनमनयोः प्रयोजकत्वमेवेति ॥ न च तथाप्युभयसाधारणस्य हेत्वर्थत्वे प्रयोजकस्यापि नववधूसंगमौत्सुक्यस्य हेत्वर्थकसमभिव्याहाराद्दोषतादवस्थ्यमेवेति वाच्यम् । हेतूक्तिस्थल एवो
नियमस्य विवक्षितत्वात् ॥ न चैवमपि तत्र परिकरसांकर्यं दुर्वारमेवेति वाच्यम् । हेतुत्वाभिमतस्य शब्दोपात्तत्व एवोक्तनियमस्योक्ततया तदाक्षेपके संगमौत्सुक्ये तदभावेऽपि नियमव्यभिचाराभावेन हेत्वाक्षेपकतयैव काव्यलिङ्गत्वानपायात् । वाक्यार्थहेतुककाव्यलिङ्गस्थलानुरोधात्कार्यबोधकेत्यादि । तथा च कार्यकारणवाचकपदानां यत्र न पदैकवाक्यतयान्वयबोधजनकत्वम्, अपि तु कार्यबोधकानां परस्परं कारणवाचकानां च परस्परमिति भिन्नवाक्यतया जनितान्वयबोधानां पश्चाद्वाक्यैक्यवाक्यतया कार्यकारणभावावगम इति फलितार्थः । 'सुधांशुकलितोत्तंसः', 'महौजसो मानधनाः' इत्यादौ च न हेत्वर्थसमभिव्याहारः ।
‘व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो
नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिषि ।
१. ‘अत्रत्यमेकं पत्रमुच्छिन्नम्' इत्येवादर्शद्वयेऽप्युपलभ्यते, परंतु 'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाग्महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥' इति तूदाहरणं भवेत्.
४३