SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२४ काव्यमाला। गुणस्य द्रव्यभेदेन यथा मम 'देवः स वाङ्मनसगोचरताविहीन भूरिप्रभावविभवः प्रमदं क्रियाद्वः । वैरोचनिं सुरकृते निजिघृक्षमाण - स्याकाशमप्यणु कृतं चरणेन यस्य ॥' अत्राकाशत्वमेकव्यक्तिकत्वान्न जातिः इति द्रव्येण तेन अणुपरिमाणरूपगुणस्य तदनधिकरणत्वरूपो विरोधः । भगवत्प्रभावातिशयात्तदभावः । क्रियायाः क्रियया यथा'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा । कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दाहविधुरा मियं नः कल्याणी रमयति मनः कम्पयति च ॥ अत्र रमणकम्पक्रिययोर्युगपदेककारणजन्यत्वरूपो विरोधः । अवच्छेदकद्वयसत्त्वात्तदभावः । क्रियाया द्रव्येण यथा'कम्पइ महिन्दसेलो हरिसंखोहेण दलइ मेइणिवेट्ठम् । सइ दुद्दिण्णतणाओ णवर ण उद्धाइ मलअवणकुसुमरओ ॥' अत्र महेन्द्रशैलत्वमेतद्धटत्ववन्न जातिः इति तेन द्रव्येण कम्पक्रियायास्तत्समवायिकत्वाभावरूपो विरोधः । वानरातिशयवर्णनात्परिहारः । अत्र विरोधितावच्छेदकतापर्याप्यधिकरणत्वेन विवक्षितो यो धर्मस्तद्वत्त्वमेव विरोधित्वम् । प्रकृते च महेन्द्रशैलत्वस्यैव तथात्वेन शैलत्वस्य जातित्वेऽप्यदोषः । द्रव्यस्य द्रव्येण यथा मम 'प्रतिलवविवर्धमानत्वत्कीर्तिकदम्बसंबाधम् । आकाशमपि महीश्वर हिमवानिति कौतुकं भाति ।' १. 'कम्पते महेन्द्रशैलो हरिसंक्षोभेण दलति मेदिनीपृष्ठम् । सदा दुर्दिना केवलं नोद्धावति मलयवनकुसुमरजः ॥' [सेतु० ६।२२]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy