SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३०७ शब्दश्लेषेण यथा 'उत्कलिकाकुलितास्ता उपकण्ठनिरस्तमारकतमालाः । प्रावृषि सरितः सेतून्भिन्दन्ति न पान्थवरवध्वः ।।' उत्कलिकेत्यादिशाब्दश्लेषेण नदीनां पान्थस्त्रीणां च साम्यप्रतीतिः । मर्यादारूपसेतुभेदाभावः स्त्रीणां विशेषः । व्यतिरेकध्वनिर्यथा ममैव 'पूर्व हिरण्यकशिपुं विबुधातिमाति(?) __मातर्हितुं समभवन्मधुभिर्ने (नृ)सिंहः । दारिद्यमन्तयितुमीदृशमेव लोके जातः स एव किल संप्रति राजसिंहः ॥ अत्र भगवदवतारत्वेन नृसिंहराजसिंहयोः सादृश्यप्रतीतेः नृसिंहेत्यनेन नृप्रतियोगिकोत्कर्षस्य राजसिंहपदेन राजप्रतियोगिकोत्कर्षस्य प्रतीत्या तदपेक्षया राज्ञ उत्कर्षों व्यज्यते । राजापेक्षया उत्कृष्टस्य मनुष्यप्रतियोगिकोत्कर्षवदपेक्षयाधिक्यस्य सर्वसिद्धत्वात् । राजत्वस्योत्कर्षप्रतियोगितावच्छेदकत्वोक्त्या प्रथममेव मनुष्यत्वावच्छिन्नप्रतियोगिताकोत्कर्षवदपेक्षया तदुत्कर्षप्रतीतेः । राजापेक्षयोत्कर्षसिद्धावन्यत उत्कर्षस्याप्यर्थतः सिद्धेरिति दिक् । इति व्यतिरेकः। आक्षेपं निरूपयतिइष्टस्याप्यपिधातुं योऽर्थस्य विशेषयोधाय । स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥१॥ वक्तुं प्रारब्धस्यापि विशेषद्योतनार्थ यो निषेधः स आक्षेपः । प्रागुक्तप्रतिषेधो भावव्युत्पत्तेः । विभागमाह-वक्ष्यमाणेति । यत्र वक्तुमुपक्रान्तः पूर्वार्थो निषिध्यते स वक्ष्यमाणविषयः । यत्र तु उक्त्वा तद्वचनवैयर्थ्यमुच्यते स उक्तविषय इति द्विविध इत्यर्थः ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy