SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३०५ इहान्यानभिभूतत्वं राहुग्रस्तत्वं चोत्कर्षापकर्षहेतू उक्तौ । ताराकान्त शब्दः श्लिष्टः । यथा वा वासवदत्तायाम् 'सुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः । करस्तस्यात्यर्थे वहति शतकोटिप्रणयितां स सर्वखं दाता तृणमिव सुरेशं विजयते ||' अत्र शृङ्गारशेखरसंज्ञस्य राज्ञ उत्कर्षहेतव इन्द्रापकर्षहेतवश्चोक्ताः । सुराणामित्यादौ च श्लेषः । प्रथमे एक उत्कर्षे एकश्चापकर्षे हेतुरुक्तः । इह त्वनेक इति विशेषः । उत्कर्षहेतुमात्रोक्तौ यथा 'रसजनकेन तिरस्कृतचन्द्ररुचा सततशोभेन । तावकमुखेन सुन्दरि नियतं परिभूयते पद्मम् ॥' अत्र रसादौ श्लेषः । मुखोत्कर्षहेतुभूताश्च शृङ्गारजनकत्वम्, चन्द्राधिक्यम्, कालानवच्छिन्नशोभत्वं चोक्ताः । जलजन्यत्वं चन्द्रतिरस्कार्यत्वं दिनमात्रशोभित्वं पद्मापकर्षहेतवो नोक्ताः । अत्रैव शोभापदेऽर्थश्लेष इति विशेषः । अपकर्षहेतुमात्रोक्तौ यथा - 'उछृंहितमकरध्वजमतिविशदं तारकारम्यम् । तव मुखमिन्दुं निन्दति तस्य तमस्कन्दनीयत्वात् ॥' अत्र मुखोत्कर्षे तमोऽनभिभाव्यत्वं हेतुरनुक्तः । चन्द्रापकर्षे च राहुपरिभाव्यत्वं हेतुरुक्तः । मकरध्वजादिशब्दाः श्लिष्टाः । द्वयोरनुक्तौ यथा— ' अत्युन्नतेन कठिनस्पर्शेन रसाहरणकर्त्रा । वक्षोरुहेण ते सखि कुम्भः प्रतिगर्जितः प्रोच्चैः ॥' अत्र स्तनोत्कर्षहेतुरन्तः पूर्णत्वम्, घटापकर्षहेतुरन्तः शून्यत्वं द्वयमप्यनु ३९
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy