________________
२९६
काव्यमाला ।
अत्र विरहोद्दीपकत्वेन प्रस्तुतानां रूपादीनां स्थितिरूपैकक्रियान्वयः । द्वितीयं यथा'भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट
श्रेणीतिन्दुककाननेषु विकसत्यस्य प्रतापानलः । तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं
भालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥' अत्र प्रतापवर्णनेऽप्रकृतानां भालनयनादीनां स्फुरन्तीति क्रियान्वयः । अत्र सर्वत्र सादृश्यं व्यङ्गयमिति सिद्धान्तः । एवं च सादृश्यं पदार्थान्तरमेवालंकारिकाभिमतम् । अन्यथा धर्मस्योपादाने तदात्मकत्वे च साहश्यस्य व्यङ्गयत्वानुपपत्तिरिति केचित्। सादृश्यत्वमेवातिरिक्तमिव पदादीनां शक्यतावच्छेदकम् । तथा च धर्ममात्रोपस्थितावपि सादृश्यत्वप्रकारेण बोधो व्यञ्जनयैव । अतः सादृश्यस्यानतिरिक्तत्वेऽपि न क्षतिरित्यन्ये । 'अयमेतत्सदृशः' इत्याकारकशाब्दबोधाविषयत्वमेव व्यङ्गयत्वम् । किंचिप्रतियोगिकत्वानुयोगिकत्वेनाभासमानत्वमिति यावत् । धर्ममात्रोपादानेऽपि तादृशशाब्दप्रतीत्यभावाड्यङ्गयत्वानपाय इति तत्त्वम् ।। __ अत्र वदन्ति–दीपकमपि तुल्ययोगितायामेवान्तर्भवति । धर्मस्य सकृद्वत्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वादिविशेषस्य चावान्तरभेदसाधकत्वेऽपि अलंकारान्तरतायामसाधकत्वात् । अन्यथा श्लेषस्य तद्भेदयोरपि भिन्नालंकारत्वापत्तेः । तस्मात्प्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्ययोगिताया एव त्रयो भेदा वक्तुमुचिताः । तस्माद्दीपकस्य तुल्ययोगिताया भेदं वदतां प्राचीनानां दुराग्रह इति, तचिन्त्यम् ।
'नानाधिकरणस्थानां शब्दानां संप्रदीपकः ।
एकवाक्येन संयोगो यस्तु दीपकमुच्यते ॥' यथा'सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानि सदा क्रियन्ते ॥