SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ यथा - अलंकारकौस्तुभः । 'फैलसंपत्ती समोणआई तुङ्गाई फलविअत्तीए 1 हिअआई सेज्जणाणं महातरूणं व सिहराई || ' अत्र सज्जनाः प्रकृतत्वादुपमेयाः, तरुशिखराण्युपमानानि तेषां समानतत्त्वतुङ्गत्वाभ्यां गुणाभ्यामेकपदोपात्ताभ्यां सहान्वयः । यथा च 'मुक्कसलिला जलहरा अहिणवदिण्णफला अ पाअवणिवहा । लहुआ विहन्ति गरुआ समरमुहोहरिअमण्डलग्गा अ भुआ || ' अत्र राक्षसवधार्थं वानरानुत्तेजयतः सुग्रीवस्योक्तौ भुजाः प्रकृतत्वादुपमेयाः । जलधरादय उपमानभूताः सर्वेषां गुरुत्वेनान्वयः । . क्रियादीपकं यथा— 'छैज्जइ पहुस्स ललिअं पिआइ माणो खमा समत्थस्स । जाणन्तस्स अ भणिअं मोणं अ अआणमाणस्स ॥' २९१ अत्र मानस्य प्रकृतत्वादुपमेयत्वम् । सर्वेषां ' छज्जइ' पदवाच्यायां शोभते इति क्रियायामन्वयः । यत्रैकमेव कारकमन्वयमेति क्रियासु बह्वीषु ॥ १ ॥ यत्रैकमेव कारकमनेकक्रियास्वन्वितं तदपि दीपकमित्यर्थः । तत्र कर्तृ कारकस्य यथा 'णिन्दइ मिअङ्ककिरणे खिज्जइ कुसुमाउहे जुउच्छइ रअणिम् । झीणो वि णवरि झिज्जर जीवेज्ज पिएत्ति मारुइं पुच्छन्तो ।' ―――――――― १. ‘फलसंपत्त्या समवनतानि तुङ्गानि फलविपत्त्या । हृदयानि सज्जनानां महातरुणामिव शिखराणि ॥ [ गाथा० ३।८२ ] २. गाथासप्तशत्यां तु 'सुपुरिसाणं' इति पाठः. ३. 'मुक्तसलिला जलधरा अभिनवदत्तफलाश्च पादपनिवहाः । लघवोऽपि भवन्ति गुरवः समरमुखावहृतमण्डलाग्राश्च भुजाः ॥' [सेतु०३ | ३७] ४. 'शोभते प्रभोर्ललितं प्रियाया मानः क्षमा समर्थस्य । जानतश्च भणितं मौनं चाजानतः ॥ [ गाथा ० ३ | ४३] ५. ‘निन्दति मृगाङ्ककिरणान्खिद्यते कुसुमायुधे जुगुप्सते रजनीम् । क्षीणोsपि केवलं क्षीयते जीवेत्प्रियेति मारुतिं पृच्छन् | [सेतु० ५/५ ]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy