SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । २७९ यत्र च केनचिदापादकेन किंचिदापाद्यते सा तृतीया । यथा'उन्मीलगुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जय दत्तान्तःश्रुतशर्कराचलमधः स्वेनामृतान्धाः स्मरः । नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भव जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥' यथा वा'खण्डक्षोदमृदि स्थले मधु पयः कादम्बिनीवर्षणा त्कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत्पुण्डूकः । स द्राक्षाफलसेचनैर्यदि फलं धत्ते तदा त्वद्गिरा__मुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः ॥ . अत्र तर्के आपादकस्य खतोऽसिद्धत्वनियमादुपमेयत्वाभिमतस्य निरुपमत्वप्रतीतिः। यत्र कारणकार्ययोः पूर्वापरभावो वस्तुतः शीघ्रकारित्वविवक्षया विपरीतत्वेनोच्यते सा चतुर्थी । सापि द्वेधा । पूर्व कार्यस्य पश्चात्कारणस्योक्तौ द्वयोस्तुल्यकालत्वोक्तौ च। आद्या यथा श्रीरुद्र(चन्द्र)देवानाम्'निःश्वासाः प्रथमं वैवुः पुनरमी धाराकदम्बानिला ___ बाष्पाम्भः प्रथमं पपात चरमं धाराधराणां पयः । प्राक्प्राणाश्चपलत्वमीयुरसमं कामं ततो विद्युत स्तस्यास्तद्विरहेण निर्दय मया दृष्टः क्रमश्चैष सः ॥' . . यथा वा'माद्यद्वेतण्डगण्डच्युतमदलहरी संचरच्चञ्चरीकी___ झङ्कारानन्दगीताः कविभुवनभुवस्ताः पुरस्ताद्भवन्ति । पश्चादञ्चन्ति तेषामुपरि करुणया रामभूपालमौले रुद्वेल्लदुग्धवीचीबहलधवलिमाबद्धकक्ष्याः कटाक्षाः ॥ १. 'दाना' ख. २. 'सदा' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy