________________
२७२
काव्यमाला।
अत्र कस्यचिदतिरसिकस्य प्रकृतस्य कामिनीकुचपरिरम्भलोलुपत्वरूपधर्मस्याप्रकृते कुरबके आरोप्यमाणस्यावच्छेदकतया प्रकृतपुरुषप्रतीतेः समासोक्तिच्छाया, न तु समासोक्तिरेव । प्रकृतेऽप्रकृतव्यवहारारोपस्य तत्त्वात् । अत्र चाप्रकृते प्रकृतव्यवहारारोपात् ॥ सादृश्यमात्रेण यथा मम'इन्द्रोपेन्द्रौ मिथस्तौ न विदयमहतां सोदरस्नेहबद्धौ
वादस्थानं तु तायोपरिगमनसुखं यातवान्पारिजातः । किं तु स्फूर्जद्गरुत्मन्नखकुलिशशिखाभिन्नमातङ्गपाता
घातापातालखाते बत फलति मृषा पारिजाते क्रमोऽयम् ॥ अत्र कयोश्चिद्वादिप्रतिवादिनोर्विरोधे तटस्थस्य कस्यचित्पीडायां प्रकृ. तायां पारिजातहरणप्राप्तिप्रसिद्धपारिजातपात्रपर्वतवृत्तान्तोत्त्या तत्सादृश्येन प्रकृतप्रतीतेः । सादृश्यन प्रतीतावपि त्रयः प्रकाराः । कचिद्वाच्यार्थे व्यनयाभेदानारोपेण तस्य च प्रोक्तधर्मस्य वाच्यव्यङ्गयोभयसाधारण्येन वाच्येऽप्युपपद्यमानत्वात् । यथा
"धूलिमइलो वि पङ्कङ्किओ वि तणरइअदेहभरणो वि । ___ तह वि गओ च्चिअ गरुअत्तणेण ढक्कं समुव्वहइ ॥'
परिच्छदहीनं जननिन्दितं च नायकं कामयमानाया इयमुक्तिः । धूलीमालिन्यादीनां गजे सत्त्वेन व्यङ्गयनायकनिष्ठधर्माध्यारोपानपेक्षा ॥
कचिद्वाच्ये व्यङ्गयधर्माध्यारोपेण । यथा मम'देवस्यास्य त्रिभुवननमस्कार्यपादाम्बुजस्य
स्थित्वा मू|परि विधुकले मा मदस्ते प्रसासीत् । जूटाबन्धावसरगुणितक्रूरकुम्भीनसेन्द्र
स्फूर्जद्भोगावलिकवलिता लप्स्यसे तद्विपाकम् ॥ १. 'धूलिमलिनोऽपि पङ्काङ्कितोऽपि तृणरचितदेहभरणोऽपि ।
तथापि गज एव गुरुकत्वेन ढकां समुद्वहति ॥' [इति गाथा० ६।२६]