SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ इत्यादौ, अलंकारकौस्तुभः । 'कपोले पत्राली करतल निरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । २६१ मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधेन तु वयम् ॥' इत्यादौ च न रसाभासत्वापत्तिः । इह हि पाण्डुत्वादिषु बहुषु गण्डचुम्बनादिव्यवहारारोपात् । बहुष्वपि एकसंबन्धिना व्यवहारारोपसंभवानानौचित्यं । त्वन्मते तु तत्र नायकत्वस्यैवारोपात्पाण्डुत्यादौ प्रत्येकं नायकत्वारोपे बहुनायकसंबन्धिरतिप्रतीत्यानौचित्याद्रसाभासत्वप्रसङ्गो दुवरः स्यादिति दिक् ॥ अत्र च क्वचिल्लौकिके शास्त्रीय व्यवहारारोपः । यथा मम - यथा मम - 'रूपं राजति केवलान्वयि तनौ प्राणेश्वरप्रार्थिता श्लेषादौ व्यतिरेकि केवलमिदं सूक्तं समाकर्ण्यते । प्रोदेति व्यतिरेकि चान्वयि च ते रम्भोरु वक्षोजयो र्मध्ये चात्र तनुत्वमङ्ग गमने लोलत्वमक्ष्णोस्तथा ॥' अत्र नायिकाया रूपे सर्वाङ्गव्यापकतायां नैयायिकप्रसिद्धाभावाप्रतियोगित्वरूपकेवलान्वयित्वव्यवहारारोपः ॥ क्वचिच्छास्त्रीये लौकिकव्यवहारारोपः । ' मा यान (?) मव्ययसमाश्रयणाद्विभक्तिर्ज्ञात्वा निजामपि तथाविधतां विनिर्मात् । स्वच्छन्दतां दधदपर्यनुयोगयोग्य स्तस्या हि लोपविधिमन्वशिषन्मुनीन्द्रः ॥' अत्राव्ययोत्तरविभक्तेर्लोपो भवतीति वैयाकरणव्यवहारे अनुचितहिंसारतबलवद्व्यवहारारोपः ॥
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy