________________
अलंकारकौस्तुभः ।
२१३
मारुते समारोपात्तदवच्छेदकतया अप्रस्तुतस्य नायकस्य प्रतीतिः, अतः समीरे नायकव्यवहारारोपेण चमत्कारः ॥ यद्यप्युक्तधर्माणां मारुतेऽपि सत्त्वेन नायकप्रसिद्धानां तेषां मारुते आरोप इति न युक्तम्, तथापि मारुते स्तनवसनालकादिनालम्बनं विशेषतो न प्रसिद्धम् । चालनहेतुत्वस्यैव तत्र प्रसिद्धेः । नायकस्य तु स्तनावरणापसारणादिधर्मा एव विशेषतः प्रसिद्धा इति चमत्कारहेतूनां नायकनिष्ठानां धर्माणां मारुते आरोप इत्युक्तम् । अत एवात्र न मारुते नायकत्वारोपः । शब्दानुपात्तस्य नायकत्वस्यारोपानुपपत्तेः । तद्व्यवहारस्तु शब्दोपात्ततया तत्रारोप्यत इत्युक्तम् । न चैवम्—
'यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् । रससंमुख्यपि सहसा पराङ्मुखीभवति रिपुसेना ॥'
इत्यादौ नायिकात्वारोपो न स्यादिति वाच्यम् । तत्रान्तःपुरे रणत्वारोपसामर्थ्येन तथात्वात् अत्र त्वलकोत्सारणादीनामुभयसाधारण्येन नाय - काक्षेपकत्वासंभवात् । न चात्र मारुतेन नायकस्य निगरणादतिशयोक्तिरेवेति वाच्यम् । उक्तधर्माणां नायक एव विशेषतः प्रसिद्धेरुक्तत्वेन तद्धर्माश्रयस्य नायकस्यैवोपमानत्वेन मारुतस्योपमानत्वाभावात् ॥
किं च-
‘अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ।'
इत्यादौ चन्द्रमसो न नायकोपमानत्वसंभवः चन्द्रपक्षे चुम्बनस्य लाक्षणिकत्वान्नायकपक्षे च मुखत्वात् । लाक्षणिकचुम्बनस्यैव सामान्यधर्मत्वे तु नायकस्यापि कान्तानुयोगिकः स्वकीययत्किंचिदवयवप्रतियोगिक एव संयोग उक्तः स्यात्, न तु मुखप्रतियोगिक इति रसापकर्षापत्तिरिति प्राञ्चः ॥
अत्र वदन्ति — प्रकृतकर्तर्यप्रकृतनायकादिव्यवहार आरोप्यत इति यदुक्तम् । तत्र किं नायकादिविशेषितो व्यवहारस्तथा, उत तदविशेषित
१. 'नामके' ख. २. 'स्तनवसनाप' ख. ३. 'तद्व्यतिहार' ख. ४. एतद्व्यतिरिक्तपदानां मूलादर्शेऽभावः.