SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४८ काव्यमाला । 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किंतु । आश्रित्य शब्दमात्र सामान्यमिहापि संभवतः ॥ इति ( अ० ४ श्लो० ३२) रुद्रटादिभिः शाब्दसाम्यस्याप्युपमाप्रयोजकत्वाभ्युपगमाच्च प्रेकृत उपमैव श्लेषस्य बाधिकेति वक्तुमर्हम् ॥ पूर्णोपमा हि साधारणधर्मप्रयोग एव संभवति । न त्वन्यथा । तत्र चार्थश्लेषादेरावश्यकत्वात्तद्विनिर्मुक्तोपमाविषयाभावेन तया श्लेषबाधस्य युक्तत्वात् ॥ एवं 'समरार्चितोऽप्यमरार्चितः' इत्यादावपि विरोधादिस्थले श्लेषस्य प्रतिभानमात्रम्, न तु वस्तुस्थितिः । द्वितीयार्थस्यानन्वयेनाप्ररोहात् ॥ एवम् 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ।' इत्यादावपि । न ह्यत्र बिन्द्वभावेन सुन्द(द)रीति प्रतीयमानो द्वितीयोऽर्थः प्रकृतोपयोगी । ननु विरोधस्यापि पारमार्थिकस्य 'नित्योऽनित्यश्च' इत्यादेरनलंकारत्वात् यथा-'अपर्यवसन्न एव विरोधोऽलंकारः' इत्यभ्युपगम्यते, एवम् अप्रतिष्ठितोऽपि श्लेषोऽलंकारत्वेन स्वीक्रियताम् इति चेत्, न । विरोधाभासस्य विरोधत्ववत् श्लेषाभासस्य श्लेषत्वेन केनचिदप्यनभ्युपगमात् ॥ एवं सद्वंशेत्यादौ रूपकं प्रधानं श्लेषस्तु रूपकाङ्गमेवेति । तत एव व्यपदेशो न्याय्यः । 'नाल्पः कविरिव-' इत्यादावपि व्यतिरेकादिरेव प्रधानम्, श्लेषस्तु तन्निर्वाहकमात्रमिति । एवं च गुणीभूतत्वेन श्लेषस्यालंकारत्वायोगाद्वाध्यप्रायत्वमेवेत्यपि केचिदिति दिक् ॥ अत्र कुवलयानन्दे अप्पदीक्षिता अन्यदप्याहुः-प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिस्तावत्प्राचीनैर्विवक्षितः । १. 'स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि खरूपं त्यजतः, किंतु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः । ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यम् , किं तु वाक्यद्वयसाधारणशब्दाश्रयं विद्यत इति तात्पर्यम् ॥' इति नमिसाधुटिप्पणी. 'न स्फुटालंकारा' इति त्वादशैं पाठ आसीत्. आर्याप्रारम्भेऽपि 'यदपि' इत्यपि चाधिकमासीत्. २. 'इत्यत' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy