SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३६ काव्यमाला | 'कैसेसु बलामोडिअ तेण समरम्मि जअसिरी गहिआ । जह कन्दराहिं विहुरा तस्स दर्द कण्ठअम्मि संठविआ ||' इत्यत्र साम्याभावेऽपि न पलाय्य गतास्तद्वैरिणः, अपि तु ततः पराभवं संभाव्य कंदरा एव न तान्न त्यजन्तीत्यपहुतिर्व्यज्यते इति काव्यप्रका - शकारेण तदभ्युपगमादित्याहुः ॥ ते शाब्दे प्रकृत निषेधे यथा मम - 'नेयं मेघघटा परंतु विरहोद्दामाग्निधूमावली न भ्राभ्यद्विसकण्ठिकावलिरसौ बन्धस्तु पान्थात्मनाम् । नैतानि स्तनितानि किं तु मदनस्याध्वन्यनिर्भर्त्सनाः केतक्या न रजांसि दग्धपथिकत्रातीयभस्मानि तु ॥' इह प्रकृतान्मेघघटादीन्निषिध्य धूमादिरेव तत्स्थानेऽभिषिक्तः ॥ आर्थिके यथा ‘विनिद्रपुष्पालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम् ॥' अत्र हि भ्रमरे व्याजत्वोक्त्या नैते भ्रमराः किं तु दुर्यशः इति भ्रमरनिषेधप्रतीतिरर्थात् । न हि भ्रमराणां सत्यत्वविवक्षायां कैतवोक्तिर्घटते ॥ सावयवा यथा मम - 'नेदं कूजितमस्ति कार्मुककृतं किं तूर्जितं गर्जितं नैवजिगरा जिरीजिवदने, किं तूमधाराततिः । नेयं सायककाञ्चनद्युतिघटा, सौदामिनी किं त्वसौ नायं वीरकुलाग्रणीरुदयते, किं त्वेष धाराधरः ॥' अत्रापह्नवान्तराणां वीरापह्नवानुग्राहकत्वात्सावयवत्वम् ॥ क्वचिदपह्नवान्तरानुगृहीतस्यापह्नवस्यापह्नवान्तरानुग्राहकत्वम् । यथा - १. 'केशेषु बलात्कारेण तेन समरे जयश्रीर्गृहीता । यथा कन्दराभिर्विधुरास्तस्य दृ कण्ठे संस्थापिताः ॥' इति च्छाया. २. 'निषेधश्च द्विविधः, शाब्द आर्थश्च' इत्यलंका मुक्तावल्यामधिकम्. ३. अजिह्मगराजिर्बाणपतिः. ४. आजिवदने संग्राममुखे.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy