SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । २११ चन्द्रत्वादिप्रतिपत्तेश्च चन्द्रगतधर्मप्रतिपत्तिः फलम् । तां विना चन्द्रत्वनियतगुणानां मुखे प्रतीत्यनुपपत्तेः- इति वदन्ति ॥ तन्न । चन्द्रत्वावच्छिन्नप्रकारताकाभेदसंसर्गकमुख्यविशेष्यकज्ञानं प्रति बाधबुद्धरत्र प्रतिबन्धकत्वाविशेषात् । ईदृशज्ञाने बाधबुद्धरत्र प्रतिबन्धकत्वाविशेष कल्पनेऽपि शक्तिजन्यैतादृशबोध एवाप्रतिबन्धकत्वस्य कल्पयितुमुचितत्वात् । चन्द्रत्वावच्छिन्नप्रकारताकमुखविशेष्यकज्ञानं च चन्द्रसदृशे लक्षणां विनापि शक्त्यैव तद्बोधोपपत्त्यभावादेव नात्र प्रमाणं भवितुमर्हति । अत एव 'गङ्गायां घोषः' इत्यादावपि गङ्गात्वेनैव तटस्य नान्वयः, गङ्गात्वेन प्रकारेण प्रवाहे घोषबाधबुद्धौ तेनैव प्रकारेण तीरेऽपि तदन्वयानुपपत्तेः । न च गङ्गात्वेन प्रवाहे घोषबाधबुद्धेर्गङ्गात्वप्रकारकप्रवाहविशेष्यकघोषान्व एतादृशकल्पनायां बीजमाह-मुखे इति । ननु विषयतावच्छेदकप्रतीतिं विनापि तत्समानाधिकरणधर्माणां प्रतीतिः स्यादेवेति किं चन्द्रत्वादिप्रतिपत्त्येत्यत आह-तां विनेति । चन्द्रत्वव्याप्यत्वेनावगतानां आह्लादकत्वविशेषादिरूपधर्माणां चन्द्रत्वबोधं विना मुखे ग्रहीतुमशक्यत्वादिति भावः । दूषयति-तन्नेति । मुखं न चन्द्र इति बाधज्ञानस्य प्रतिबध्यतावच्छेदकं चन्द्रप्रकारकाभेदसंसर्गकमुखविशेष्यकज्ञानत्वरूपमेव, तच्चोक्तस्थले साधारणमेवेति कथं सत्सत्त्वे चन्द्रत्वरूपेणाभेदान्वयबोधो भवितुमर्हतीत्याह-चन्द्रत्वेति । ननु शक्तिजन्यतादृशबोधे सत्येव प्रतिबन्धकत्वं वाच्यमित्यत आहईदृशेति । तादृशबाधबोधसत्त्वे उक्तबोधस्येष्टत्वे शक्तिलक्षणाजन्यत्वस्याप्रयोजकत्वादिति भावः । ननु चन्द्रत्वेन रूपेणाभेदावगाहि शाब्दबोध एवात्र प्रमाणमित्यत आह–चन्द्रत्वावच्छिन्नेति । तादृशबोधस्योक्तरीत्या शक्त्यैवोपपत्त्या न तदन्यथा तस्य लक्षणाजन्यत्वं कल्प्यत इति भावः ॥ ननु गङ्गायां घोष इत्यत्र गङ्गात्वेन तटस्य बोधात् युक्तमेव लक्षणाजन्यबोधे बाधस्याविरोधित्वकल्पनं तद्विना तन्नियतशैत्यपावनादिधर्माणां तटे बोधानुपपत्तेः । तत्संबन्धबोधस्यैव तदाक्षेपकत्वे तु गङ्गातीरे घोष इत्यतोऽपि तत्प्रत्ययप्रसङ्गात् । उक्तं हि काव्यप्रकाशे-'तटादीनां गङ्गादिशब्दैः प्रतिपादनेन तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः' इति । अत आह-अत एवेति । नान्वय इति । किंतु तत्संबन्धित्वस्यैव लक्षणया बोधः । व्यञ्जनया तु तद्वत्त्यनन्तरं शक्यलक्ष्ययोरभेदबोध इति भावः । गङ्गात्वेन तटं कुतो न लक्ष्यते इत्यत आह-गङ्गात्वेनेति । ननु यदा गङ्गात्वेन प्रवाह एव गृह्यते तत्रैव बाधबुद्धेः प्रतिबन्धकत्वम् । यदा तु तीरमेव तद्रूपेण गृह्यते तत्र तु न तथा, भिन्नविषयत्वादित्याशङ्कते-न चेति । तद्रूपं धर्मितावच्छेदकत्वेन बाधज्ञाने भासते
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy