SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला। यथा च 'निविष्टायाः कोपाद्गुरुसदसि पङ्केहदृशः ___ पदोपान्ते छायामुपनयति मूर्धप्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति ध्रुवं मुक्ता मुक्ताफलपरिणता बाष्पकणिकाः ॥' भुजलता पङ्केहदृशः इत्युभयत्रापि लिङ्गभेदः । एवं साधारणधर्मसमासेऽपि यथा'निर्मुक्तशेषधवलैरचलेन्द्रमन्थ विक्षुब्धदुग्धमयसागरगर्भगौरैः । राजन्निदं बहुलपक्षदलन्मृगाङ्क ___ च्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम् ॥' यथा च'मुक्तं मुक्तागौरमिह क्षीरमिवात्रैर्वापीष्वन्तीनमहानीलशिलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलां सलिलस्य ॥' प्रायेणेत्युक्ते 'हंसीव धवला' इत्यादौ दुष्टत्वमेव ॥ उपमाप्रपञ्चे यथा 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृता खलु गुणैरुद्यानलता वनलताभिः ॥' अत्राश्रमवासिजनवनलतयोलिङ्गभेदः । एवं वचनभेदेऽप्यदोषो ज्ञेयः ॥ दमुदाहरति-यथा चेति । गुरुसदसीति साक्षादनुनयानर्हत्वसूचनम् । पदान्ते शिरश्छायोपनयनं प्रसादाथै प्रणामाभिप्रायम् । उत्तरार्धे बाष्पत्यागो मानभङ्गसूचनार्थः ॥ निर्मुक्तेति । अनर्घ्यराघवे दशरथं प्रति विश्वामित्रोक्तिः । 'निर्मुक्तो मुक्तकञ्चुकः' इति सर्वप्रकरणेऽमरः । अत्र शेषादीनामुपमानानां पुंस्त्वं यशसां तु क्लीबत्वम् । स्त्रीलिङ्गोपमाने साधारणधर्मसमासमुदाहरति-यथा चेति । मुक्तमिति । माघे रैवतकवर्णनम् । उपमाप्रपञ्च इति । सादृश्यपर्यवसायित्वात्तथात्वमित्यर्थः । शुद्धा. न्तेति । शकुन्तलामालोक्य दुष्यन्तस्योक्तिः । 'शुद्धान्तश्चावरोधनम्' इत्यमरः । अत्रैकवचनभेदमुदाहरति-एवमिति । जनस्यैकवचनान्तत्वात् लतानां च बहुवचनान्त१. 'मिच्छति' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy