________________
अलंकारकौस्तुभः ।
१४९ सर्वाभ्युपगतत्वात् ॥ यदि च तत्सादृश्यबुद्ध्यैव तथेत्याग्रहः क्रियते । तथापि तत्र मानससादृश्यज्ञानसंभवेऽप्यत्र सादृश्यशाब्दस्यानुपपत्तिरेव । अत्रेवादिपदानामुपमोपस्थापकानामभावात्तत्प्रतीकारभूतत्वेनापि नामार्थान्वयायोगादित्यादि सूरिभिरेव विचारणीयम् ॥ भेदे परम्परिता यथा
'नलिन्या इव तन्वङ्गयास्तस्याः पद्ममिवाननम् । ___ मया मधुकरेणेव पायं पायमरम्यत ॥' अत्रोपमानोपमेयानां भिन्नपदवाच्यत्वम् । यथा वा मम'चकोरकाणामिव कोविदानां राकासुधारश्मिरिवोज्ज्वलो यः । विभूषणं भूवलयस्य विद्वान्वीराग्रणी राजति राजहंसः ॥' इयमेव मालारूपा यथा मम'ज्योत्स्नायन्ते तव गुणगणाः पूर्णचन्द्रायसे त्वं __धारायन्ते विशिखनिवहा वारिवाहायसे त्वम् । एधायन्ते रिपुनृपतयो हव्यवाहायसे त्वं
__ भृङ्गायन्ते प्रवरविबुधा वीर पद्मायसे त्वम् ॥ इदानीमुपमादोषाः पूर्वाचार्योक्ताः प्रदर्श्यन्ते । तानाह वामनः'हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तदोषाः' इति । भेदपदं लिङ्गे वचने चान्वेति । तेन लिङ्गभेदो वचनभेदश्चेत्यर्थः ।
तत्र हीनत्वं त्रिधा-जातितः, प्रमाणतः, धर्मतश्च । तथा च सूत्रम्'जातिप्रमाणधर्मन्यूनत्वमुपमानस्य हीनत्वम्' इति । आद्यं यथा
'चाण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' अत्र चाण्डालत्वजातिरुपमेयजातितो न्यूना । न च नित्यत्वे सत्यनेसादृश्येन धर्माभेदेन चेत्युभाभ्यामपि उपमानिष्पत्तिः स्फुटैव । एवमन्यत्रापीति दिक् ॥ एतदखरससूचनायैवाह-यदि चेति ॥ एधायन्त इति । सकारान्तादेवस्शब्दा
१. 'तत्र' ख.