SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | अत्रोद्वेगजनकत्वं सर्वत्रोपमानिमित्तधर्मः स चाक्षिप्तः । श्रूयमाणस्तु यथा— 'वाहि व्व वेज्झरहिओ धणरहिओ सुअणगेहवासो व्व । रिउरिद्धिदंसणं विअ दूसहणिजो तुह विओऊ ॥' अत्र दुःसहत्वं सर्वत्रैको धर्मः । तद्भेदे यथा १४२ 'मातेव रक्षति पितेव हिते नियु कान्तेव चाभिरमयत्यपनीय दुःखम् । कीर्तिं च दिक्षु वितनोति तनोति कीर्ति किं किं न साधयति कल्पलतेव विद्या ॥' अत्र रक्षणादयो धर्मा भिन्नाः । यथा वा 'जलइ वडवाणो विअ फुट्टइ सेलो व्व रामवाणाहिहओ । रसइ जलउ व्व उअही खुहिओ लइ मारुओ व्व णहअलम् ॥' अत्र ज्वलनादयो भिन्ना धर्माः । यथा वा .............[सूर्यस्यैव].....[वक्षथः] [वसिष्ठा].......[अन्वे तवे ] " ....... ....... १ .... • गोधनरहितं गोष्ठमिव तस्या वदनं तव वियोगे ॥' [इति च्छाया ।] 'व्याधिरिव वैद्यरहितो धनरहितः सुजनगेहवास इव । रिपुऋद्धिदर्शनमिव दुःसहस्तव वियोगः ॥ [इति च्छाया ।] क्वचित्तु सामान्यधर्मानुपादानेऽपि तदापेक्षकस्य शाब्दत्वं यथा—'वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽथ वर्णाधमः फुल्लां नाम्यति वायसोऽपि ह • तां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति हि यया नावा तयेवैतरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वे भज ॥' अत्र सर्वोपभोग्यत्वरूपधर्मोपपादकमाद्यउदाहरणत्रयम् । धर्म इति । श्रूयमाण इति पूर्वेणान्वयः ॥ ' ज्वलति वडवानल इव स्फुटति (च) शैल इव रामबाणाभिहतः । रसति जलद इवोदधिः क्षुभितो लङ्घयति मारुत एव नभस्तलम् ॥' [इति च्छाया ।] सेतुकाव्ये श्रीरामशराहत समुद्रक्षोभवर्णनम् । अत्र रामबाणाभिहतत्वं समुद्रांशे तत्तद्भिन्नधर्मप्रयोजकमिति पूर्वस्माद्विशेषः ॥ [ सूर्यस्यैवेति । १. 'परिभाषिता' ख. १. एतदादिकस्य छान्दस इत्यन्तस्य ग्रन्थस्य मूलं नोपलभ्यते । एकस्मिन्मूलपुस्तके 'यथा वा' इत्येवोपलभ्यते । अग्रे तूदाहरणं किमपि न दृश्यते.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy