________________
अलंकारकौस्तुभः ।
१११
अत्रैव 'कवस्स' इत्यत्र 'कक्कसमम्' इति, 'सरिसं' इत्यत्र ' च णूणम्' इति पाठे च समासगेति काव्यप्रकाशकृत् ।
नन्वियं कथमुपमानलुप्ता । चन्द्रस्य सदृशमित्यत्र चन्द्रस्यैवोपमानताप्रतीतेः । काव्यस्य सदृशमित्यत्रापि काव्यमेवोपमानमिति चेत् ।
अत्राहुः—–— काव्यस्य सदृशमित्यस्य काव्यप्रतियोगिकसादृश्यानुयोगीति नार्थः किं तु काव्यनिष्ठसादृश्यप्रतियोगीत्येव । काव्यस्य प्रकृततया तदुकर्षायोपमेयत्वस्य विवक्षितत्वात् ।
अथैवं तद्वृत्तिसादृश्यप्रतियोगिनोऽसत्त्वेऽनन्वयः स्यात् । किं च भेदगसादृश्यस्याप्रसिद्धतया कथं निषेधः । न चात्र भेदगर्भ सादृश्यं स्वस्मि न्नेव प्रसिद्धमिति वाच्यम् । उपमोदाहरणविरोधादिति चेत् । न । दर्शनश्रवणाविषयतयोत्कृष्टगुणस्योपमानत्वविवक्षणात् । दर्शनश्रवणविषयस्यैवोपमानत्वनिषेधात् । अतोऽत्रानुपादानमात्रमुपमानस्य विवक्षितं न तु वस्तुतोऽप्यसत्त्वम् । अनन्वये त्वसत्त्वमेवाभिमतमिति ।
अन्ये तु — सदृशपदमत्रोपमाने लाक्षणिकम् । न चैवं तदुपादानं नास्तीति वाच्यम् । यादृशपदेनोपमानोपादाने तदुत्तरवर्तिना इवादिपदेनोपमानत्वं बोध्यते तादृशपदेनानुपादाने इत्यर्थात् । न च सदृशादिप
1
सकाव्यस्य । दृश्यते अथवा न श्रूयते सदृशं अंशांशमात्रेण ॥' [इति च्छाया ।] लाघवादाह—अत्रैवेति । वक्ष्यमाणा परितोषादाह - काव्यप्रकाशकृदिति । जयरामभट्टाचार्यव्याख्यानेन समाधिमाह - अत्राहुरिति । कथमिति । अप्रसिद्धप्रतियोगिकनिषेधस्य निरूपणाभावादित्यर्थः । विरोधादिति । 'सादृश्यमुपमाभेदे' इति भेदगर्भसादृश्यस्यैव उपमात्वादित्यर्थः ॥ महेश्वररीत्या समाधिमाह - अन्ये त्विति । लाक्षणिकमिति । सादृश्याश्रयस्यैव तद्वाच्यतया सादृश्यप्रतियोगिनि लक्षणेत्यर्थः । यादृशेति । उपमानतावच्छेदकरूपावच्छिन्नोपमानबोधकेत्यर्थः । न च सदृशेति । नहि चन्द्र इवेत्यस्मात् यथा साम्यप्रतीतिस्तथा सदृश इवेत्यस्मात्, विशिष्य उपमानतावच्छेदकानुपस्थितेरित्यर्थः । तथा चोपमानत्वातिरिक्तप्रकारेण तदुपस्थापकपदप्रयोग
१. 'मानस्य' ख.