SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ वाक्ये आर्थी यथा मम - 'जलदोदराददीता भामिनि सौदामिनीलेखा । नीलनिचोलादाविर्भूता कान्तिश्च ते समा रम्या ॥' काव्यमाला | अत्र समप्रयोगादार्थी । समासे श्रौती यथा 'आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्रासमन्तःकरणं करोति । ――――――― सह समासः । संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥' अत्र इयं हीति पूर्वशेषात्कामन्दकी उपमेया । अचिरप्रभवेत्यत्र इवेन आर्थी यथा मम - 'तीनां दो बहु विषदयन्ती दश दिशो हरन्ती संतापानुपगतवती स्पर्शविषयम् । प्रयाता स्वच्छन्दं दृशमधि सुधादीधितिकला समानेयं केषां न हरति मनस्ते तनुलता ॥' अत्र समानपदप्रयोगात्तस्य समासान्तर्गतत्वाच्च । तद्धिते श्रौती यथा मम - 'सुकुमारत्वमरुणता दृशोर्वशीकारकारणत्वं च । भातीह मत्तकाशिनि पाणियुगे तामरसवत्ते ॥' अत्र इवार्थे सप्तम्यर्थे वतिः । दृश्यते इत्यर्थः । अनाविद्धया वैरिप्रहरणैरक्षतया तन्वा देहेन त्वं जय शत्रून्, स प्रसिद्धो वर्मणः कवचस्य महिना शस्त्रक्षतप्रतिबन्धकत्वरूपस्त्वां पिपर्तु पालयतु । परशस्त्रेभ्य इत्यर्थः । समासेनेति । जीमूतस्य इवेति पदद्वयानवच्छेदेनेत्यर्थः । असमासेनेति । पृथक् पदद्वयपाठादित्यर्थः । समासस्य नित्यत्वे तु पृथक् पदद्वयपाठो न स्यात् । समासे पूर्वपदे पृथगवग्रहाकरणात् । अवान्तरपदसंज्ञानेकत्वे तदुत्तरकाल - प्रकृतिकामेव पदसंज्ञामादायावग्रहः क्रियते इति वैदिक संप्रदायात् । एतदभिप्रायेणैव 'ग्रीष्मचण्डकर मण्डल भीष्मज्वालसंसरणतापित मूर्तेः । प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥' इति वाक्यगतपूर्णोपमायां रसगङ्गाधरेऽप्युदाहृतत्वादिति भावः ॥ १. 'तत्रार्थी' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy