________________
विचार- रत्नाकरः
|
||७||
फलानपेक्षाः प्रवृत्तयस्ताच प्रक्रमाच्छुभाः ' अणुवयाई' ति अहिंसादीनि 'गुणाई' ति गुणव्रतानि ' वेरमणाई' ति सामान्येन रागादिविरतयः, 'पच्चक्खाणपोसहोववासाई' ति प्रत्याख्यानं-पौरुष्यादिविषयं, पौषधोपवास:-पर्वदीनोपवासः । 'गीयगंधवनिनाए' त्ति गीतं-गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वनिनादः, 'कालमासे 'त्ति कालकरणमासे मासस्योपलक्षणत्वात्कालदिवसे इत्याद्यपि द्रष्टव्यम् । 'कहिं गए कहिं उववन्ने 'त्ति प्रश्नद्वये ' सोहम्मे कप्पे' इत्याद्येकमेवोत्तरं, गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । आयुःकर्मदलिकनिर्जरणेन, 'भवक्खएणं' ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन, 'ठिइक्खएणं' त्ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति । इति भगवतीसप्तमशतकनवमोद्देशके ८०६ प्रतौ २३२ । २३३ पत्रे ॥ ८ ॥
पुनरपि दण्डकग्रहणाक्षराणि लिख्यन्ते
“णिग्गंथं च णं गाहावइकुलं जाव केइ दोहि पडिग्गहेहिं उवणिमंतेज्जा, एगं आउसो ! अप्पणा परिभुंजाहि, एगं थेराणं दलयाहि । | से य तं पडिग्गहेज्जा । तहेव जाव तं णो अप्पणा परिभुजेज्जा णो अण्णेसिं दावए, सेसं तं चेव जाव परिद्ववियव्वे सिया, एवं जाव दसहि पडिग्गहेहि, एवं जहा पडिग्गहवत्तव्वया भणिया, एवं गोच्छगरयहरणचोलपट्टगकंबललट्ठीसंथारगवत्तव्वया य भाणियव्वा जाव दसहिं संथारएहिं उवणिमंतेज्जा" । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति । इति श्रीभगवत्यष्टमशतकषष्ठोद्देशके ८०६ प्रतौ २६९ पत्रे ॥९॥
ये केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः तथा च मतिज्ञानादयोऽपि तथैव । तथा हि
" कन्हलेसा णं भन्ते ! कइ वन्ना ? पुच्छा गोयमा ! दव्वलेसं पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, भावलेसं पडुच्च | अवन्ना४, एवं जाव सुक्कलेस्सा सम्मट्ठिी३ चक्खुदंसणे४ आभिणिबोहियनाणे जाव विभंगनाणे, आहारसन्ना जाव परिग्गहसन्ना, एयाणि अवन्नाणि४" इति । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति ॥ इति श्रीभगवती द्वादशशतक पञ्चमोद्देशके ८०६ प्रतौ ३९५ पत्रे ॥ १० ॥
पुष्पदन्तग्रहणमाश्रित्य मिथ्याग्विकल्पितकल्पनाजालनिराकरणाय लिख्यन्ते
||७
||