SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ | स्थानाङ्ग विचाराः विचार-8 साध्यनिरन्तरतपःक्रियाभीरवश्च योगोद्वहनं उद्देशसमुद्देशानुज्ञादिवचनैः प्रतिपदमागमोक्तमपि नाडीकुर्वन्ति, तच्च तेषां चलनश्रमभिया मार्गत्यागपूर्वकं रत्नाकरः गर्त्तापातप्रायम्, योगविधिसत्तासूचकः सिद्धान्तश्चायम्-“दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा णिग्गंथीण वा पव्वावित्तए-पाईणं | चेव उदिणं चेव, एवं मुंडावित्तए सिक्खावित्तए उट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अभ्भुद्वित्तए अहारिहं पायच्छितं तवोकम्म पडिवज्जित्तए"। वृत्तिर्यथा 'दो दिसाओ इत्यादि' द्वे दिशौकाष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः । कल्पते-युज्यते, निर्गता ग्रंथाद्धनादेरिति ||३011 निर्ग्रथा:-साधवस्तेषां निर्ग्रथ्यः-साध्व्यस्तासां प्रवाजयितुं रजोहरणादिदानेन प्राची-पूर्वामित्यर्थः उदीचीमुत्तरामित्यर्थः । उक्तंच-" पुव्वामुहो उ उत्तरमुहोव्व देज्जाऽहवा पडिच्छेज्जा । जीए जिणादओ वा हविज्ज जिणचेइयाई च ॥ १॥” इति । एवं इति यथा प्रवाजनसूत्रं दिग्द्वयाभिलापेनाधीतम् एवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति । तत्र मुण्डयितुं-शिरो लुंचनतः १ शिक्षयितुं-ग्रहणशिक्षापेक्षया सूत्रार्थो ग्राहयितुमासैवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति । २ उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं-भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं-संस्तारकमण्डल्यां निवेशयितुं ५ सुष्ठु आ-मर्यादयाऽधीयते इति स्वाध्यायोऽङ्गादिस्तमुद्देष्टुं-योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति । ६ समुद्देष्टु-योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७ अनुज्ञातुं-तथैव सम्यगेतद्धारयान्येषां च प्रवेदयेत्येवमभिधातुमिति ८ आलोचयितुं-गुरवे अपराधान्निवेदयितुमिति ९ प्रतिक्रमितुं-प्रतिक्रमणं कर्तुमिति १० निन्दितुं-अतिचारान् ao स्वसमक्षं जुगुप्सितुं ११ आह् च-'सचरित्तपच्छायावो निंदत्ति' गर्हितु-गुरुसमक्षं तामेव जुगुप्सितुं १२ आह च-' गरहावि तहा जातीयमेव नवरं परप्पयासणयत्ति' 'विउट्टित्तएत्ति' व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः १३ विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति । १४ अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति १५ यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तंच-" पावं छिंदइ जम्हा, पायच्छित्तं तु भण्णते तेण । पाएण वावि चित्तं, विसोहए तेण पच्छितं ॥१॥" ति । तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६ । इति श्रीस्थानाइद्वितीयस्थानकप्रथमोद्देशके ४४० प्रतौ ५४।५५ पत्रे ॥ २ ॥ ||३०||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy