________________
विचार- लेणं लेणकाले, सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवडिएसु वा || अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए ॥” इति । वृत्तिर्यथा-संयमयात्रायां मात्रा संयमयात्रामात्रा, यावत्याऽऽहारमात्रया संयमयात्रा
विचाराः Is भवति सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा । तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् । इदमुक्तं भवति । यथा
अहिर्बिलं प्रविशंस्तूर्णं प्रविशति, एवं साधुनाप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति यदिवा सर्पणेवाहारो लब्ध्वाऽनास्वादमभ्यवहार्यत
इति । तदेव चाहारादिकं दर्शयितुमाह- अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्यनन्तरकाले, भिक्षाकाले प्राप्ते पुरःपश्चात्कर्मपरिहृतं भवति । 112211
यथोक्तभिक्षाटनेन ग्रहणकालावाप्तं भैक्ष्यं परिभोगकाले भूञ्जीत । तथा पानकं पानकाले, नातितृषितो भूजीत, नाऽप्यतिबुभुक्षितः पानकं पिबेदिति । वस्त्रं वस्त्रकाले गृह्णीयादुपभोगं वा कुर्यात् । तथा लयनं-गृहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः । तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां तु प्रहरमेकमिति । स भिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन्नन्यतरां दिशं अनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्प्रतिपादयेत, as येन यद्विधेयं तद्यथायोगं विभजेत्, धर्मफलानि च कीर्तयेदाविर्भावयेत्, तच्च धर्मकर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेष्वनुपस्थितेषु
वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु-श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमपुण्डरीकाध्ययने २७१ प्रतौ १९१ पत्रे ॥ १६ ॥
यः साधूनामवज्ञाकारी भवति स आगाढमिथ्यादृष्टिरुच्यते, इत्यभिप्रायो लिख्यते
“से एगइओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । अदुवा णं अच्छराते आफालेत्ता भवइ । अदुवाणं फरुसं वइत्ता भवइ । कालेणवि से अणुपविठुस्स असणं वा पाणं वा जाव नो दवावेत्ता भवइ । जे इमे भवंति वोन्नमंता भारोक्कंता अलसगा वसलगा किवणगा पव्वयंति" इति । वृत्तिर्यथा-सांप्रतं विपर्यस्तदृष्टयो गाढमिथ्यादृष्टयोऽभिधीयन्ते 'से एगइओ'
इत्यादि । अथैककः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा ||२२|| hol नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयति-अथवेत्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः । क्वचित्साधुदर्शने