SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः । ॥२४३॥ အာာာာာ अथ कल्पत्रेपस्वरूपं किञ्चिल्लिख्यते आत्ता कप्पतिप्पे । आयुक्ता - उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः ? कल्पश्च त्रेपश्च कल्पत्रेपौ तयोः, तत्र कल्पो - भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः, विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथम् ? ओदनमण्डकयवक्षोदकुल्माषराजमुद्गचवलकचवलिकावृत्तचणकसामान्यचणकनिष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः । शाकपेयायवागूककोद्रवौदनराद्धमुद्गदाल्यादिसौवीरतीमनाद्यल्पपकृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये, ततो द्वौ बहि:; तत एकः सर्वत्रेति कल्पपञ्चकेरूपो मध्यमः । तथा दुग्धदधिक्षैरेयीतैलघृतगुडपानकादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो द्वौ बहिः ततो द्वौ सर्वत्रेति कल्पसप्तकरूप उत्कृष्टः । इत वृद्धवादः । हस्ते तु मणिबन्धं यावत्कल्पो देय इति, त्रेपो- अपानादिक्षालनलक्षण:, अत्र किञ्चिन्निशीथसूत्रचतुर्थोद्देशकगतं लिख्यते जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवणभूमिं ण पडिलेहेइ न पडिलेहंतं वा सातिज्जति । अस्य चूर्णि :- साणुप्पाओ णाम चउब्भगावसेसचरिमा तीए उच्चारपासवणभूमीओ पडिलेहियव्वाओ ॥ १ ॥ जे भिक्खू वा भिक्खूणी वा तओ उच्चारपासवणभूमीओ ण पडिलेहेइ ण पडिलेहं वा सातिज्जति । जे भिक्खू वा भिक्खूणी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिट्ठवइ परिट्ठवंतं वा सातिज्जइ । अस्य चूर्णि : रयणिप्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरइ तस्स मासलहुं आणादिया य दोसा, वित्थरायामेणं, थंडिल्लं जं भवे रयणिमेत्तं चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ।। १ ।। वित्थारो - पोहत्तं आयामो- दिग्घत्तणं रयणी- हत्थो तम्माणे ठितं रयणिमेत्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ॥ २ ॥ सव्वुक्कोसं विच्छिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिओ ॥ इति श्रीगच्छाचारप्रकीर्णके ' जत्थ य सन्निहिउक्खड ' इत्येतद्गाथा ७२ वृत्तौ ॥ ९ ॥ अथ कारणे चतुर्मासकमद्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा हि सत्त उ वासासु भवे, संघट्टा तिन्नि हुंति उडुबधे । ते तु न हणंति खित्तं, भिक्खायरियं च न हणंति ॥ २ ॥ ये सप्तोदकसङ्घट्टा ာာာာာာာာာာာာာာာာာာင် 1128311
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy