________________
व्यवहारविचाराः
विचार- प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयंतो यत्किमपि आलोचनीयम् । 'पहृढे' त्ति रत्नाकरःनि
विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिबलेनैतज्जानाति यथैष भणितः सन् शुद्धभावत्वात्सम्यक् प्रतिपद्यते । ' वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथेष भणितोऽपि सन्न सम्यग् प्रतिपत्स्यते इति, तदा
तमप्रतिपद्यमानं-अप्रतिपत्स्यमानं न खलु नैव स्मारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां 1122011 यद्यालोचकः सम्यगावृत्तौ ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्त-स्ततो न प्रयच्छतीति । श्रुतव्यवहारिणः प्राह-कप्पपकप्पी
उसुए आलोयाति ते उ तिक्खुत्तो। सरिसरथमपलिउंची, विसरिसपरिणामतो कुंची ॥ १७ ॥ कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनियुक्तिनिशीथपीठिकाधरश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रि:कृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ वा वारावालोचिते अनेन प्रतिकुञ्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेषं नावबुध्यते, ततस्त्रीन् वार(नालोचापयन्ति । कथम् ? इति चेत्, उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठु मयाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुञ्चोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुञ्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन
मायावी किं नोपलभ्यते येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो lol भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति ।
अत्रैवार्थे दृष्टान्तमाह-तिन्नि उ वारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा । सुद्धस्स होइ मासो, पलिउंचिइ तं चिमं चण्णं ॥ १८ ॥
दंडिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन् वारानपन्यायमुच्चारयितुमभियोगः । Lal एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुञ्चनापरो न वेति परिज्ञानार्थं त्रीन् वारानुच्चारयितुं
1122