SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः ॥ 88 विचार- 888 यमुपदेशो दीयते, देशव्रतानि - स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शनं सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते देशान्तरं गच्छन्ति । इति श्रीबृहत्कल्पभाष्यवृत्तौ तृतीयखंडे ४० पत्रे ॥ ५ ॥ यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं भुङ्क्ते, तस्य पिंडो वर्जनीयः । अन्यत्र तु भजना । इती श्रीबृहत्कल्पचतुर्थखंडे १५३ पत्रे ।। ६ ।। 1122311 इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः ॥ ४ ॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं मधुरं तदलभ्यमपि लोके ॥ १ ॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति न ह्येते छिम्पकादयो नीचाः, किं तु ते म्लेच्छधिग्जात्यादयः परं तन्न किञ्चित्, एतेऽपि तथैव । यथा लोगुत्तरपरिहारो, दुविहो परिभोग धरणे य । अत्रैवं व्युत्पत्तिः परिहरणं परिहार:, ' लोगुत्तरवज्जं इत्तरिए ' ' वज्जं ' वर्ज्यम्, तद्विधा - ' लोग ' त्ति लौकिकं, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा- इत्वरं यावत्कथिकं च तत्रेत्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वर्ज्यते च इति यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वर्ज्यन्ते । लोकोत्तरमपि वर्ज्यं द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरं ' दाणे अभिगमसड्डे' इत्यादि । यावत्कथिकं ' अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसे' इत्यादि । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशे ' कंठगमादी दव्वे' इत्येतद्गाथायां ६५९ प्रतौ ५८ पत्रे ॥ १ ॥ अथ येषु द्रव्यक्षेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते तत्र यदुक्तमधस्तात् ' अवराहे दिवसतो पसत्यंमि ' तदिदानीं व्याख्यानयति दव्वादिचउरभिग्गह, पसत्थमपसत्थ ते दुहेक्केका । अपसत्थे वज्जेडं, पसत्यएहिं तु आलोए ।। १ ।। अपराधालोचनायां दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुः सङ्ख्याका अपेक्षणीया भवन्ति । तथा ' अभिग्गह ' သာာာာာာာာာ *4%%%%%%%%% 1122311
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy