SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग विचाराः विचार- अदिण्णादाणं पच्चक्खामि । से अणुपविसित्ता गाम वा जाव रायहाणिं वा नेव सयं अदिनं गिण्हेज्जा, नेवनेणं अदिन्नं गिण्हावेज्जा, नेवनं अदिन्नं गिण्हतंपि समणुजाणेज्जा । जेहिं वि सद्धि संपव्वइए तेसि पि याई भिक्खू छत्तयं वा मत्तयं वा दंडगं वा जाव चम्मच्छेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुनविय अपडिलेहिय अप्पमज्जिय नो उगिण्हेज्ज वा पगिण्हेज्ज वा, तेसिं पुवामेव उग्गहं अणुनविअ पडिलेहिय पमज्जिय तओ संजयामेव उगिण्हेज्ज वा पगिण्हेज्ज वा" इति । वृत्तिर्यथा- 'समणे इत्यादि' श्राम्यतीति श्रमणस्तपस्वी। यतोऽहमेवंभूतो भविष्यामीति दर्शयति-'अनगारो' अगा वृक्षास्तैर्निष्पन्नमगारम्, तन्न विद्यते यस्येत्यनगारस्त्यक्तगृहवास इत्यर्थः । तथा न 119011 विद्यते किमप्यस्येत्यकिञ्चनो निःपरिग्रह इत्यर्थः । तथाऽपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुर्द्विपदचतुष्पदादिरहितः । यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वं भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः । तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक् श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयानैवापरेण ग्राहयेन्नाप्यपरं गृह्णन्तं समनुजानीयात् । यैर्वा साधुभिः सह सम्यक् प्रवजितस्तिष्ठति तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति-तद्यथा 'छत्रकं' इति, छद अपवारणे छादयतीति छत्रं वर्षाकल्पादि, यदि वा कारणिकः क्वचित्कौङ्कणदेशादावतिवृष्टिसंभवाच्छत्रकमपिगृहणीयाद्याkal वच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य वाऽप्रमृज्य च नावगृह्णीयात्सकृत्प्रगृह्णीयादनेकशः । तेषां सम्बन्धि यथा गृह्णीयात्तथा दर्शयति पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयात् । इत्याचाराङ्गद्वितीयश्रुतस्कधसप्तमाध्ययनप्रथमोद्देशके २३७ प्रतौ २२७ पत्रे ॥ १४ ॥ ॥ इति श्रीमद्कब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीआचारङ्गकियद्विचारसमुच्चयनामा प्रथमस्तरङ्गः ॥१॥ । इति श्रीविचाररत्नाकरे प्रथमस्तरंगः सम्पूर्णः । 119011
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy