SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विचार- रत्नाकरः 119६३|| वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा आवस्सए' त्ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकाक्रियावन्तो वा 'ठवणा ठविज्जइ' त्ति स्थापनारूपं स्थाप्यते-क्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम्, 'पोत्यकम्मे व' त्ति पोत्यं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्नं रूपकम्, लेप्यकर्म-लेप्यरूपकम्, ग्रन्थिमं-कौशलातिशयाद्ग्रन्थिसमुदायनिष्पादितरूपकम्, वेष्टिमंपुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं व्यादीनि वा वस्त्राणि वेष्टयन कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम्, पूरिम-भरिमं पित्तलादिमयप्रतिमावत्, सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत्, अक्षः-चन्दनको, वराटकः-कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः, पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्धावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम्, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह'सेतं' इत्यादि, तदेतत्स्थापनावश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह-' नामट्ठवणाणं को पइविसेसो' त्ति, नामस्थापनयोः कः प्रतिविशेषो ? न कश्चिदित्यभिप्रायः, तथाह्यावश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथावश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-' नामं आवकहियं' इत्यादि, नाम यावत्कथिक-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वारा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः, तथाहि- नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठते १६३||
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy