________________
विचार
अपरं च यदि सयोगिकेवलिन: केवलयोगप्रत्ययं विराधनामात्रमपि न स्यात्तर्हि तत्र निश्चयतः सर्वसंवररूपं सर्वोत्तमं चारित्रं न रत्नाकरःनि
भवतीति को हेतुः ? तच्च शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमुक्तम् । तथा हि
ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ ।। इति । वृत्तिर्यथा-'ईसिं' ति स्तोककालं शैलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपज्जारणाद्धया, किमुक्तं भवति ? नातिद्रुतं नातिविलंबितं
किंतु मध्यमेन प्रकारेण यावता कालेन ङञणनम इत्येवंरूपाणि पज्जाक्षराण्युच्चार्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालं: किं 119४३||
समयप्रमाणः ? इति निरूपणार्थमाह-असङ्ख्ययसामयिका-असङ्ख्येयसमयप्रमाणाम्, यच्चासङ्ख्येयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्त्तप्रमाणेति ख्यापनायाह-आन्तर्मोहूर्तिकी शैलेशीमिति, शीलं-चारित्रं तच्चेह निश्चयतः सर्वसंवररूपं तद्ग्राह्य | तस्यैव सर्वोत्तमत्वात्, तस्येशः शीलेशः, तस्य याऽवस्था सा शैलेशी, तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, hel उक्तं च-" सीलं व समाहाणं, निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥ १॥ हस्सक्खराइं
मझेण, जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमित्तं तओ कालं ॥२॥ तणुरोहारंभाओ, झायइ सुहुमकिरियानियट्टि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥३॥” इती श्री प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्तौ ५३२ प्रतौ ५३० पत्रे ॥ ११॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीशिष्योपाध्याय. श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररलाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा चतुर्थस्तरङ्गः ॥ यस्यानुभावेन जगत् समस्तं, शस्तप्रशस्तं वरिवर्ति नित्यम् । तं जैनधर्म सततं श्रयामो, व्यामोहवल्लीगजराजशावम् ॥ १॥
अथ क्रमायाताः श्रीजम्बूद्वीपप्रज्ञप्तिविचारा लिख्यन्ते-तत्र यावद्वर्षपर्यायस्य साधोर्यदाचारादिश्रुतमध्याप्यं तल्लिख्यते
योगो-अवसरस्ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसरः ? इति, उच्यते-उपाङ्गस्याङ्गार्थानुवादकतयाऽङ्गसामीप्येन वर्तमानाद्य एवैतदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथा:-" तिवरिसपरियायस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स य ॐ सम्मं, सूअगडं नाम अंगं ति ॥१॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य, अंगे ते अट्ठवासस्स ॥ ॐ
11१४३||