________________
119३१11
विचार- 20 ते तु दुर्लभबोधिनो वेदितव्याः, पुष्पेषु सङ्ख्यासङ्ख्यानन्तजन्तुकृतो विवेकश्चायं सिद्धान्तोक्त:रत्नाकर
पुप्फा जलया थलया य, बिंटबद्धा य णालबद्धा य । संखिज्जसंखिज्जा, बोधव्वाणंतजीवा य ।। ८२ ॥ जे केइ णालियाबद्धा, पुप्फा संखेज्जजीविया भणिया । णिहूया अणंतजीवा, जे यावन्ने तहाविहा ।। ८३ ।। वृत्तिर्यथा-'पुष्फा जलया' इत्यादि, पुष्पाणि चतुर्बिधानि, तद्यथा-जलजानि-सहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा-कानिचिढन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्ग्येयजीवानि कानिचिदसङ्ख्येयजीवानि कानिचिदनन्तजीवानि, यथागमं बोद्धव्यानि ।। ८२ ॥ अत्रैव कञ्चिद्विशेषमाह-'जे केइ णालियाबद्धा' इत्यादि, यानि कानिचिन्नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्येयजीवकानि भणितानि तीर्थंकरगणधरैः, स्निहूपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि
स्निहूपुष्पकल्पानि तान्यपि तथाविधानि-अनन्तजीवात्मकानि ज्ञातव्यानि ।। ८३ ॥ इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० पत्रौ २८ पत्रे late ||२॥
अथ पुष्पफलकालिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्ति तल्लिख्यते
पुष्फफलं कालिंगं, तुंबं तउसेलवालुवालुकं । घोसाडयं पडोलं, तिंडूयं चेव तेंडूसं ॥ ९० ॥ विटं मंसकडाहं, एयाइं हुंति एगजीवस्स । पत्तेयं पत्ताई, सकेसरमकेसरं मिजा ॥ ९१॥ वृत्तिर्यथा-पुष्पफलमेवं कालिङ्गं तुम्बं त्रपुषं ' एलवालु' त्ति चिर्भटविशेषरूपं वालुकं-चिर्भटम् । तथा घोषातकं पटोलं तेन्दुकं तिन्दूसं च यत्फलम्, एतेषु प्रत्येकं 'बिण्टं' वृन्तं ' मंसकडाहं' इति मांसं-गिरं तथा कटाह, एतानि त्रीणि एकस्य जीवस्य भवन्ति एक जीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलादीनां तिन्दुक(स) पर्यन्तानां पत्राणि पृथक् 'प्रत्येकं' इति प्रत्येकशरीराधिष्ठितानि-एकैकजीवाधिष्ठितानीत्यर्थः । तथा सकेसरा अकेसरा वा मिञ्जा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥ ९०-९१ ॥ इति श्रीप्रज्ञापनाप्रथमपदसुत्रवृत्तौ ४०० प्रतौ २९ पत्रे ॥ ३ ॥
अथ निगोदजीवा यथाऽऽहारान्नपानादिकं गृहणन्ति, यथा चैकस्मिन् शरीरेऽनन्तास्तिष्ठन्तो मृदुधियां प्रतीतिपथमवतरन्ति, यथा च तेषामानन्त्यं सुखेन प्रतीयते तथा लिख्यते
पुष्पकल
11939॥