________________
जीवविचारादिप्रकरण
चतुष्टयम्
तथा या द्वितीया कर्मस्थितिर्मिथ्यात्वस्य वर्तते तस्याः पुञ्जत्रयं करोति जीवः शुद्धं १ अर्धविशुद्धं २ अशुद्धं ३ च, यथा कोद्रवाणां गोमयपानीयादिभिरुत्तारितमदनानां शुद्धः पुञ्जः १ अर्धोत्तारितानामर्धशुद्धः पुञ्जः २ अनुत्तारितमदनानामशुद्धः पुञ्जः ३ मिथ्यात्वदलिकस्यापि क्षपितमिथ्यात्त्वानुभावस्य यः पुञ्जः स शुद्धः क्षायोपशमिकरूपः कथ्यते, योऽर्धशुद्धः पुञ्जः स मिश्रः कथ्यते, योऽशुद्धपुञ्जस्तन्मिथ्यात्वं कथ्यते, तत्रौपशमिकसम्यक्त्वकालस्य जघन्यत एकसमये शेषे उत्कृष्टतः षडावलिकाशेषेऽनन्तानुबन्ध्युदयो भवति येन कृत्वोपशमसम्यक्त्वं कलुषीभवति तदा सम्यक्त्ववमनकाले सास्वादनं भवति २ ।
पूर्वोक्तपुञ्जत्रयमध्ये यदा शुद्धः पुञ्जोदयस्तदा क्षायोपशमिकसम्यक्त्वं भवति ३ ।
पुञ्जत्रयक्षपणकाले-क्षपणसमये वेदकसम्यक्त्वं भवति शुद्धसम्यक्त्वाणुवेदनाच्चरमसमये ४ ।
क्रोध-मान-माया-लोभानामनन्तानुबन्धिनां चतुर्णां क्षये मिथ्यात्वमिश्रपौद्गलिकसम्यक्त्वानां क्षये क्षायिकं भवति तदप्यपौद्गलिकं ५ । तत्र सम्यक्त्वानां पञ्चानां मध्ये क्षायिकसम्यक्त्वे सति मोक्षो भवति न शेषसम्यक्त्वचतुष्टये ७ ।
नवतत्त्व
॥७९॥