________________
जीवविचार
गव्यूतपृथक्त्वं देहमानेन भवन्ति ॥३०॥
तथा संमूच्छिमाः खचराः पक्षिणो भुजगाः भुजपरिसश्च धनुःपृथक्त्वं देहमानेन भवन्ति । संमूच्छिमा उरगा योजनपृथक्त्वं ३ देहमानेन स्युः । तथा संमूच्छिमाश्चतुष्पदा गव्यूतपृथक्त्वमात्रा नवगव्यूतप्रमाणदेहा भणिता उक्ताः । इह बहुषु पुस्तकेषु "उरगा भुयगा य जोयण पुहुत्तं" इति पाठो दृश्यते स चिन्त्यः प्रज्ञापनासंग्रहिण्यादिभिर्विरोधात् ॥३१॥ अथावशिष्टगर्भजचतुष्पदतिरश्चां मनुष्याणां च देहमानमाह -
छच्चेव गाउआई, चउप्पया गब्भया मुणेयव्वा ।
___ कोसतिगं च मणुस्सा, उक्कोससरीरमाणेणं ॥३२॥ जीवविचारादि
गर्भजाः चतुष्पदा उत्कर्षत: षड्गव्यूतान्येव मन्तव्याः । चः समुच्चये । एतद्देवकुर्वादौ गर्भजगजानाश्रित्य बोद्धव्यम् ।। प्रकरणचतुष्टयम्
तथा गर्भजा मनुष्या उत्कृष्टशरीरप्रमाणेन कोशत्रिकोच्चा मन्तव्याः । इदमपि देवकुर्वादौ युगलिकनरानाश्रित्य ज्ञेयम् ॥३२॥ अथ देवानां स्वाभाविकदेहमानमाह -
6066066060060060060mil
एएएesereven9019-19
॥२३॥