________________
प्रव्रज्या० श्रीप्रद्यु. नीयवृत्ती
विनये चन्दनावृत्तम्
॥१५४॥
ACHARAC-%
प्रभावतः। प्रद्योतोऽपि समागत्य, प्रभुं नत्वा न्यविक्षत ॥४७॥ तदा भव्योपकाराय, देशनां तन्वति प्रभौ । धन्वी कोऽपि समागत्य, पप्रच्छ मनसा प्रभुम् ॥ ४८॥ प्रभुणोक्तो गिरा पृच्छ, या सा सा सति सोऽवदत् । या सा सा सेति च स्वाम्युत्तरे पप्रच्छ गौतमः ॥ ४९ ॥ इदं प्रश्नोत्तरं कीदृग् ?, नाथ! नाथोऽप्यथावदत् । चम्पायां स्वर्णकारोऽभूद्यां यां कन्यां स चैक्षत ॥ ५० ॥ स्वर्णपंचशतीं दत्वा, कान्तां तां तांब्युवाह सः। इत्थं पंचशतीमेष, महेलानाममेलयत् ।। ५१ ॥ गृहवप्रवदेतासां, वासोकांसि विधाप्य सः । एकद्वारे च तत्राभूदीर्ष्यालुर्यामिकः स्वयम् ॥ ५२ ॥ वारकस्त्रीं विना नान्याः, शृंगारिण्यस्तदाज्ञया । स्त्रियामत्यर्थगृद्धस्य, तस्यैवं यान्ति वासराः ॥ ५३॥ नीतो भोक्तुं गृहे क्वापि, महे सख्या बलादयम् । तत्पत्न्योऽथ व्यधुः सर्वाः, स्नानभूषां विलेपनम् ॥५४॥ सज्जकज्जलताम्बूलाः सर्वाभरणभूषिताः। विलोकयन्त्यो वकाणि, तस्थुर्दर्पणपाणयः।।५५।। स्वर्णकृत्तास्तथा प्रेक्ष्य, निहत्यैकां व्यसु व्यधात् । पराभिदर्पणैरेवाहत्य स्वोऽभिहतः पतिः॥५६॥ सानुतापास्ततो गेह, देहं प्रज्वाल्य ता मृताः । मर्त्यत्वे वर्त्तते चौर्यात, सैकोना पंचशत्यपि ॥५७॥ स्त्री तु पूर्वहता रोरगृहे पुत्रतयाजनि । पंचाब्देऽस्मिन् स्वर्णकारजीवो | जज्ञेच पुत्रिका।।५८॥सशब्द सा तदारोदीद्, भ्राताऽस्या बालधारकः।गुह्ये पस्पर्श तत्कालं,निवृत्ता रोदितादसौ॥५९||पितृभ्यां स तथा | कुर्वन् दृष्टो निष्कासितो गृहातामिलितस्तस्करैर्जाता,पूर्णा पञ्चशती च सा॥६०|आबाल्याद् बन्धुकी ग्रामे,क्वापि तस्य स्वसा गता। ग्रामो भग्नः स तैस्तेनैधृता भार्या कृता च सा॥११॥तैश्च तत्कृपयाऽऽनिन्येऽन्यापि चौर्याय तेषु तु । गतेषु वञ्चयित्वा तामृगँ कूपे शठाऽक्षिपत है ॥३२॥पृष्टा तैरागतैः सोचे,स्वस्त्रीमपि न रक्षथ। द्विजोऽध्यायदथो किंनु, स्वसा माऽसौ? यदीदृशा॥६३।।ततोऽत्रैत्य हृदाऽपृच्छत् ,सन्देहं | स्वसृलज्जया। गिरा पृच्छेति च प्रोक्तोऽस्माभिगुप्तगिराऽवदत्॥६४॥ या सा सा सेत्यथास्माभिर्दत्तमुत्तरमप्यदः । इत्थं जना विन
१९५४॥