________________
श्री
प्रव्रज्या०
विनये चन्दनावृत्तम्
श्रीप्रद्युः
नीयवृत्ती
॥१५२॥
PISHBHABHOSA%%%)
श्रितः पूज्यपादान् कल्पद्रुमोपमान् ॥ ११ ॥ ज्ञानात्तमुचितं ज्ञात्वा, सूरिभिर्गुणभूरिभिः। स सितासितया वाचा, क्षरेय्याऽपि च | | तपितः ॥ १२ ॥ व्रतेच्छुः स व्रतं दत्त्वा, प्रहितः साधुभिः सह । चन्दनोपाश्रयं तैश्च, विधिनाऽन्तः प्रवेशितः॥ १३ ।। अभ्यु| स्थाय तया पीठे, निवेश्य च स वन्दितः। तत्पुरश्चार्यिकानीतमासनं नातं तया ॥१४॥ उक्तं च किंच पूज्यानामागमः स व्यचिन्तयत् । अहो व्रतं यतोऽमुष्या, मय्यप्येवं विनीतता ॥ १५ ।। ध्यात्वेत्याहादिशत्पूज्या, युष्मद्वार्तार्थमत्र माम् । आपृच्छय। साधुभिः सार्द्ध, गतो धर्म स्थिरोऽभवत् ॥ १६ ।। सतो वैमुख्यगान् कृत्वाऽधान्मदाँश्चन्दना दमान् । यथा तथा चं साध्वीनामन्यासामपि युज्यते॥१७॥ इतः सुरप्रियो यक्षः, साकेतेऽस्ति स उत्सवे । चित्रितश्चित्रकृद्घाती, ग्रामघाती त्वचित्रितः॥१८॥ नश्यचित्रकृतां वर्गो, धृत्वा बद्ध्वाऽवलग्नकैः । राजा तन्नामपत्रस्य, क्षिप्त्वा कुम्भेऽनुवत्सरम् ॥ १९ ।। कन्यकायां चकर्षत्यां, यन्नाम्नाऽभ्येति पत्रकः । स चित्रयति यक्षं च, प्रयाति च यमालयम् ॥२०॥ युग्मम् ।। कौशाम्म्यां चित्रकृच्चित्रकौशलार्थमुपागतः ।। | तत्रास्थाच्चित्रकृवृद्धागृहे एकसुतांचित ।।२१।। तत्सू नुपत्रिकाऽऽकृष्टा, कुमार्या वृद्धया श्रुता । रुदन्तीं तां निवार्यासौ, परोपकृतिधीययौ ॥ २२ ॥ कृत्वा षष्ठं पवित्रांगवस्त्रश्चित्रकरः स च । गन्धाधिवासितैर्नव्यवर्णकैः कूर्चकैरपि ॥ २३ ॥ पद्व्याष्टपुठ्या सं-| छन्नमुखघ्राणमचित्रयत् । यक्षमक्षमयदक्षस्ततश्चैष कृतानतिः ॥ २४ ॥ स्वमागः क्षमयन्नुक्तो, देवेन वरहेतवे । प्रोवाच मा जनान् मार्षीः, प्रीतो देवोऽब्रवीदिति ॥ २५॥ तद्धि सिद्धं तव त्राणादिति योदितेऽवदत् । दृष्टेऽशेऽपि यथारूपं, रूपं चित्रेऽस्तु मे ततः ॥२६॥ इत्थं लब्धवरो यक्षात, कौशाम्बी स समागतः । शतानीकः समादिक्षत, तदा चित्राय चित्रकान् |॥ २७ ॥ स्थानेषु च विभक्तेषु, स शुद्धान्तान्तिकस्थितः । दृष्ट्वाऽङ्गुष्ठं मृगावत्या, रूपं निरुपमं व्यधात् ।। २८ ।।
CAMERCA%AAAAS
॥१५२॥