SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः ८५ कारणनिबंधनायथा ॥ हृतसारमिवेंदुमंडलंदमयंतीवदनाय वेधसा ॥ कृतमध्य बिलंविलोक्यतेघृतगंभीरखनीखनीलिम॥ अत्राप्राकरणिकेंदु मंडलगततयोत्प्रेक्ष्यमाणेनदमयन्तीवदन निर्माणार्थ सारांशहरणेन तत्कार्य रूपंवर्णनीयतया प्रस्तुतंदम यंतीवदन गतलोकोत्तरसौंदर्य प्रतीयते । यथावा ॥ मदीयवर दराजस्तवे | आश्रित्यनूनममृतद्युतयः पदंतेदेहक्षयोपनतदि व्यपदाभिमुख्याः ॥ लावण्य पुण्यनिचयंसुहृदित्वदास्येविन्य स्ययांतिमिहिरंप्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचंद्रकर्तृक तयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन त त्कार्यमनंतकोटिचंद्रलावण्यशालित्वमनन्यमुखसाधारणंभ गवन्मुखे वर्णनीयतया प्रस्तुतंप्रतीयते ॥ - हृतेति । हृतोगंभीरायांखन्यां गर्ते स्वस्याकाशस्यनीलिमायेने तिमंडल विशेषणम् । आ श्रियेति । हेदेवप्रतिमासंभिन्ना अमृतद्युतयश्चंद्रास्ते विष्णोः पदमाकाशमेवपदं चरणमाश्रि त्यदेहस्यक्षयेउपनतंसंपन्नंदिव्यपदस्याभिमुखत्वमेषामेवंभूताः संतस्त्वदास्य रूपे सुहृदिमि त्रे नूनं लावण्यस्वरूपस्य पुण्यस्यनिचयं विन्यस्यमिहिरं सूर्यमतियांतीत्यन्वयः ॥तथाहि । चंद्रस्तावन्मंत्र लिंगाहृद्विक्षयाभ्यामभेदेपिभेदाध्यव सायाद्वाप्रतिमासंभिन्नत्वेनवर्णितस्तेनाऽतीताचंद्राअनंतको टयइतिलब्ध| कालस्यानादित्वात्सर्वेषां चतेषामाकाशसमाश्र यणंश्लेषमहिम्ना भगवच्चरणसमाश्रयत्वेनाध्यवसितां भगवच्चर प्रपन्नानांचदेहक्षयोपस्थितौ परमपदप्राध्याभिमुख्यं तदानी मेवस्व सुहृद्वर्गेस्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमंडलप्रा प्तिश्वेत्येतत्सर्वश्रुतिसिद्धमिति । तदनुरोधेन तेषांदेहक्षयकाल स्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्राक्प्रत्यक्षसि द्वं पुण्यत्वेन निरूपितस्यलावण्यस्यप्रहाणंनिमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवतिभगवन्मुखेन्यसन मुत्प्रेक्षितं । यद्यपिसुहृद्वहुत्वे तावदल्पपुण्यसंक्रमोभवति तथा प्यत्र सुहृदित्येकवचनेन भगवन्मुखमेव चंद्रस्य सुहृद्भूतंनमुखांत
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy