________________
चंद्रिकासमेतः
१५५ ननुतथाप्येकविषयव्याजस्तुतिनलेशाद्भिद्यतेसाशंक्याह विषयैक्येपीति । लेशा स्पर्शनादिसप्रेतनेनान्वयः । इंदोरिति । हेउर्वीवलयतिलकरूपराजन् वदीयैर्यशोभिः किंधवलितंतद्वद यतोद्यापिइंदुलक्ष्म्यादीनिश्यामलिम्नाश्यामवर्णनानुलिप्तान्याभासं तेइत्यन्वयः । लक्ष्मलांछनं । दिङ्नागानांदिग्गजानांमदजलमेवमषीतद्भांजितद्युक्ता नि । परिसंख्येति । एतान्येवश्यामानीसेवंरूपेयर्थः। विषयांतरंदोषीकृताद्भिन्नगुणरू पमालंबनं । सर्वदेति । अरय पृष्ठमर्थात्तवनलेभिरेऽप्राप्तवंतःपलायनाभावात् । दीना र परिमाणविशेषपरिच्छिन्नासुवर्णमुद्रा एवंचलेशव्याजस्तुसोरलंकीर्णविषयसखेचगु णदोषीकरणादिकमियादिपदेनदोषगुणीकरणसंग्रहः । येष्वित्युपक्रमात्तत्रेतिपागेयु कतरःअत्रेसपियुक्तएवाइदमोपियच्छब्दार्थपरामर्शकत्वात् ॥३७॥ इतिलेशालंकारः॥
सूच्यार्थसूचनंमुद्राप्रकतार्थपरैःपदैः ॥ नितं
बगुर्वीतरुणीदृग्युग्मविपुलाचसा ॥१३८॥ अत्र नायिकावर्णनपरेणयुग्मविपुलापदेनास्यानुष्टुभोयुग्मवि पुलानामत्वरूपसूच्यार्थसूचनंमुद्रा।यद्यप्यत्रग्रंथेवृत्तनानोना स्तिसूचनीयत्वंतथाप्यस्योत्तराईस्यलक्ष्यलक्षणयुक्तच्छंदःशा स्त्रमध्यपातित्वेन तस्यसूचनीयत्वमस्तीतितदभिप्रायेणलक्ष णंयोज्यं एवंनवरत्नमालायांतत्तद्रत्ननामनिवेशेनतत्तन्नामक जातिसूचनन्नक्षत्रमालायामम्यादिदेवतानामभिर्नक्षत्रसूच नमित्यादावयमेवालंकारः। एवंनाटकेतुवक्ष्यमाणार्थसूचने ष्वपि ॥ १३८॥ सूच्यार्थेति । सूचनीयस्यार्थस्येत्यर्थः । मुद्रेतिलक्ष्यनिर्देशः । दृग्युग्मविपुलंयस्याः सा। अत्रग्रंथेअस्मिन्नलंकारग्रंथे । रत्नमालाशब्देनभगवत्स्तुतिपद्यावलीविशेषउच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तमा मप्रवृत्तिनिमित्तरत्नजातिसूचनं । नक्षत्रमालाशब्दार्थोपिपूर्वोक्तएव । अस्यादि देवतानामभिर्नक्षत्राणांतदैवत्यानांसूचनंबोध्यं । वक्ष्यमाणेति। यथाअनर्घ्यराघवे 'यां तिन्यायप्रवृत्तस्यतिथचोपिसहायताम् । अपंथानंतुगच्छंतंसोदरोपिविमुंचति' इतिसूत्र धारवचनेनवक्ष्यमाणरावणवृत्तांतसूचनमितिबोध्यं ॥ १३८ ॥ इतिमुद्रालंकारः
क्रमिकंप्रकृतार्थानांन्यासरत्नावलींविदुः । चतु रास्यापतिर्लक्ष्म्याःसर्वज्ञस्त्वंमहीपते ॥१३९॥