SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७८ [सहोक्ति भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २८ ॥ अलङ्कारसूत्रं अधुना भेदप्राधान्येनालङ्कारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति, उपमानादुपमेयस्याधिकगुत्वे न्यूनगुणत्वं वो भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणें. । -- "दिदृक्षवः पक्ष्मलताविलास मक्ष्णां सहस्रस्य मनोहरं ते । वापीषु नीलोत्पलिनी विकासरम्यासु नन्दन्ति न षट्पदौघाः ॥ " "क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसाद सुन्दरि ! यौवनमनिवर्ति यातं तु ॥ अत्र विकस्वरनीलोत्पलिन्यपेक्षयाक्षिसहस्रस्य पक्ष्मलतौया वैलक्षण्यमधिकगुणत्वम् । चन्द्रापेक्षय च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन गतस्यापुनरागमनात् ॥ 55 उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ २९ ॥ भेदो वैलक्षण्यमिति । न त्वन्योन्याभावः । आधिक्यविपर्ययौ गुणद्वारेत्याह – अधिकगुणत्व इत्यादिना । अधिकगुणत्वमिति । तच्च षट्पदानामनन्दनेन द्योतितम् । यौवनस्य न्यूनगुणत्वमिति । अत्राप्यस्थैर्यापेक्षया चन्द्राद् यौवनस्याधिक्यमिति लक्षणे विपर्ययग्रहणं न कर्तव्यमित्यन्ये । व्यतिरेके उत्कर्षापकर्षप्रतीतेर्भेदप्राधान्यं स्फुटम् ॥ १. 'वा । वि', २. 'णे', ३. 'तयाधि', ४. 'या यौ', ५. 'मात् ॥' क. ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy