________________
अबकारसूत्रं
[तुल्ययोगिताकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चैनार्थं लक्षयिष्यते ॥
___ एवमध्यवसायाश्रयेणालङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थ. गतत्वेन तेषां डैविध्ये पदार्थगतमलङ्कारहयं क्रमेणोच्यते
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ॥ २३ ॥
इवाद्यप्रयोगे औपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामेप्राकरणिकानां वार्थानां समानगुणक्रियाभिसम्बन्धेऽन्वितार्था तुल्ययोगिता । यथा
"सज्जातपत्रप्रकराञ्चितानि
समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावाद्
दिनानि पद्मानि च वृद्धिमीयुः ॥" ध्यवसितानि । तदभिप्रायेण सातिशयलडहत्वाद्यभिप्रायेण । लक्षयिध्यत इति । इह तु वचनमन्यैरतिशयोक्तिभेदत्वेन लक्षितत्वात् ॥
औपम्यस्य गम्यत्व इत्यादि । वैवक्षिकस्य वास्तवस्य वोपमानोपमेयभावस्यारोपाध्यवसायावन्तरेण गम्यत्व इत्यर्थः । तत्रेह वैवक्षिकत्वम् । उत्तरत्र वास्तवत्वम् । प्रस्तुतानामप्रस्तुतानां वेति बहुवचनमविवक्षितं, द्वयोरपि दर्शनात् । एवं दीपकेऽपि प्रस्तुताप्रस्तुतयोः प्रस्तुताप्रस्तुतानां वेति द्रष्टव्यम् । धर्मशब्दार्थमाह - गुणक्रियाभिसम्बन्ध इति । अन्वितार्थति । तुल्यधर्मयोगत्वात् । सज्जातेत्यादि । दिनपक्षे
१. 'ञ्चार्थे', २. 'मर्थानामप्रा', ३. 'वा स' क. ख. पाठ:. ४. 'यास', ५. 'देन', ६. 'अ' न. पाठ:.