________________
अलङ्कारसूत्रं
[रस्प्रेक्षा"अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्" इत्यत्र नूपुरगतस्य मौनित्वस्य यो हेतुर्दुःखित्वं, तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते, तत्रापि निमित्तभूतो धर्मः कचिन्निर्दिश्यते । यथा “स वः पायादिन्दुः" इत्यादौ । अत्र कुटिलतो निर्दिष्टैव । “वेलेव रागसागरस्ये"त्यादौ तु संक्षोभकारित्वादि गम्यमानम् । यत्रं च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते, तत्रापि निमित्तस्योपादानानुपादानाभ्यां दैविध्यम् । उपादाने यथा
"प्राप्याभिषेकमेतस्मिन् प्रतितिष्ठासति द्विषाम् ।
चकम्पे लोप्यमानाज्ञा भयविह्वलितेव भूः॥" अत्र भूगतत्वेन विह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादि निमित्तमुपात्तम् । अनुपादाने यथा- "लिम्पतीव तमोऽङ्गानी”. त्यादि। अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादि निमित्तं गम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम्। तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात्। तस्माद् यथोक्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं, तदेव निमित्तम् । तस्यानुपादाने कस्य तत् फलत्वेनोक्तं स्यात् । तस्मात् तत्र निमित्तस्योपादानमेव । न प्रकारान्तरम् । तागमनमौनित्वे अन्ये । अन्ये चादर्शनदुःखायुक्ते । एवमप्यध्यवसायवशादभिन्नयोस्तयोर्विषयविषयिनिष्ठत्वेन निमित्तत्वम् । वेलेवेत्यादि । असिद्धत्वेन
१. 'त्यादावत्र', २. 'त्वं', ३. 'दो सं', ४. 'त्र ध', ५. 'तवि', ६. 'च
गम्यमानवि क. ख. पादः