SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सन्यास पालङ्कारसर्वस्वोपेतम् । I "असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता । " इत्यत्रोपमैव, नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा "सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥” अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा "पातालमेतन्नयनोत्सवेन ५५ विलोक्य शून्यं मृगलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः || ” अत्र चन्द्रस्यैकत्वाद् द्रव्यत्वम् । एतानि भावाभिमाने उदाहरणानि । अभावाभिमाने यथा - “कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्या स्वरूपं विषयी | कुटिलत्वाख्यो गुणो निमित्तमुपात्तम् । लेपनेत्यादि । तमोनभसी विषयौ । लेपनवर्षणक्रियास्वरूपे विषयिणौ । व्यापनादिक्रिया निमित्तं गम्यते । उपमैवेति । अत्र हि असत्पुरुषसेवाद्यष्ट्योः साथर्म्यमात्रं प्रतीयते, न त्वभेदाध्यवसायः । सैवेत्यादि । अत्र नूपुरं विषयः दुःखाख्यगुणलक्षणो हेतुर्विषयी । मौनित्वं गुणो निमित्तमुपात्तम् । पातालमित्यादि । मुखानि विषयः । चन्द्रस्वरूपं विषयी | कान्त्यादिगुणलक्षणं निमित्तं गम्यते । इयं च सापवोत्प्रेक्षा । कपोलेत्यादि । अत्र १. 'शाला' क. ख. पाठः .
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy