SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २ २४. प्रस्तुतानामप्रस्तुतानां च दीपकम् । २५. वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमा । २६. तस्यापि बिम्बप्रतिबिम्बतया निर्देशे शन्तः । २७. सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना । २८. भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये काव्यतिरेकः । २९. उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरा सार्थसम्बन्धे सहोतिः । ३०. विना किञ्चिदन्यस्य सदसत्वाभावो विनोक्तिः । ३१. विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । ३२. विशेषणसाभिप्रायत्वं परिकरः । ३३. विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः । ३४. अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा । ३५. सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टवकृत समर्थनमर्थान्तरन्यासः । ३६. गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् । ३७. स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । ३८. उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषमतिपत्यर्थ निषेधाभास आक्षेपः । ३९. अनिष्टविध्याभासश्च । ४०. विरुद्धाभासत्वं विरोधः । ४१. कारणाभावे कार्यस्योत्पत्तिर्विभावना | ४२. कारणसामग्रथे कार्यानुत्पत्तिर्विशेषोक्तिः । ४३. कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिश योक्तिः ः । ४४. तयोर्विभिन्नदेशत्वेऽसङ्गतिः ।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy