SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सव्याख्यालङ्कारसर्वस्वोपेतम् । एभिस्तत्परिरम्भनिर्भरर्भरैरङ्गैः कथं स्थीयतां कष्टं तद्विरहेण सम्प्रति वयं कृच्छ्रामवस्थां गताः ॥” अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालङ्कारः । भावस्य चात्र स्थितिरूपतया वर्तनम् । शान्त्युदया २ ૪ स्थे तु वक्ष्येते । ऊर्जस्वी यथा "दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुति चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गाकुलैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥” अत्र रावणस्याभिलाषशृङ्गार औत्सुक्यं च व्यभिचारिभा वोऽनौचित्येन प्रवृत्तौ । समाहितं यथा "अक्ष्णोः स्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य तव चण्डि ! गतोऽपि रोषो नोद्गाढवासनतया प्रसरं ददाति ॥" निरूपणम् ] २११ ――― ग्रन्थविस्तरभयात् । एष एवेत्यादि । प्रेयोलङ्कारस्यैव भावालङ्कार इति संज्ञान्तरमित्यर्थः । शान्त्युदयवत् स्थितेरप्यलङ्कारत्वेनाकथनं नासंभवाद्, अपि तु उक्तप्रेयोरूपत्वादेवेत्याह- - भावस्य चात्रेत्यादि । अत्र प्रेयसि। वक्ष्येते इति । समाहिते शान्त्यवस्था । भावोदये उदयावस्था । अत्र रावणस्येति । पूर्वार्धे आभिलाषिकेशृङ्गारस्य प्रतीतिः, उत्तरार्धे औत्सुक्यस्येत्येवरूपौ रसव्यभिचारिणौ परदारविषयत्वेन शास्त्रविरुद्धत्वाद १. 'त' क. ख. पाठः, २० 'र्ण', ३ 'स्था', ४. 'क्ष्य' ख. ग. पाठः. ५. 'होमम' क., ‘मन्त्रमोह इ' ख. पाठः ६. 'ते', ७. 'वीक्षिततरैर', ८. 'च रसव्य', S. 'त्यप्र' क. ख. पाठः. १०. 'योलङ्कारवत्त्वादे' ख. ग. पाठः. ११. 'का' ख., 'त' क. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy