SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०२ ..... मलकारसूत्रं [भाविकवस्तूनामादरप्रत्ययेन हृदि सन्धार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणों प्रत्यक्षतयैव प्रतीरिवार्थगर्भीकारेणेयं प्र. तीयमानोत्प्रेक्षा, तस्या अभिमानरूपाध्यवसायस्वभावत्वात् । नह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते, किं तर्हि काव्यार्थविद्भिः प्रत्यक्षं दृश्यत इति । नापि वस्तुगत इवार्थ उत्प्रेक्षायाः प्रयोजकः, तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात् । यदाहुः- "अभिमाने च सा योज्या ज्ञानधर्मे सुखादिवद्" इति । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यत्यद्भुत. पदार्थदर्शनादतीतानागतयोः प्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गिभावेन प्रतीत्यभावात् । योगिवत् प्रत्यक्षतया प्रतीतेः । नाप्ययं परिस्फुरद्रूपतया सचमत्कारप्रतिपत्ते रसवदलङ्कारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानिवत् योगाभ्यासबलोत्था । आदरप्रत्ययेन आदरविशिष्टेन ज्ञानेन । तस्याः उत्प्रेक्षायाः । प्रत्यक्षं दृश्यमानत्वेऽपि वस्तुनः परमार्थतोप्रत्यक्षत्वेन इवार्थस्य विद्यमानत्वादुत्प्रेक्षात्वमाशङ्कयाह - नापीति । अभिमाने चेति । ज्ञानावान्तरजातावभिमाने योज्या न वस्तुधर्म इत्यर्थः । वक्तुरपि प्रत्यक्षत्वप्रतीतेः प्रतिपत्तृधर्मत्वस्यानियममाशङ्कयाह-काव्यविषय इति । काव्यार्थनिरूपणवेलायाम् । योगिवदिति । यथा योगिनोऽतीतत्वादिविशिष्टोऽप्यर्थः पुरोवर्तितया प्रतीयते, तथा सहृदयस्येत्यर्थः। यदि पुनरपुरोवर्त्यपि पुर ईव परिस्फुरति, तदा रसवदलङ्कारः स्यादित्याशङ्कयाह----नाप्ययमिति । रत्यादीत्यादिशब्देन हासादयः विभावादीत्यादिशब्देनानुभावव्यभिचारिणश्च गृह्यन्ते । तदनुषक्ततया रत्याद्यनुषक्ततया । साधारण्येन सकलसहृदयसा १. 'दि धार्य', २. ‘णामप्र' क. ख. पाठः. ३. 'तप्र' ग. पाठः. ४. 'सक्त्यादि', ५. 'ए', ६. 'लह' क. ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy