SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १५. भारपूर्ण मुत्तरम् । न चेदं परिसङ्ख्या, व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेणोदाहरणम् - ___ "एकाकिनी यदबला तरुणी तथाह मस्मिन् गृहे गृहपतिश्च गतो विदेशम् । .. कं याचसे तदिह वासमियं वराकी __ श्वश्रूर्ममान्धबधिरा ननु मूढ ! पान्थ ! ॥" "का विसमा दव्वगई किं ळद्धव्वं जणो गुणग्गाही । किं सोक्खं सुकळत्तं किं दुक्खं जं खळो ळोओ॥" पूर्वत्र मम निवासोऽत्र दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्रं दैवगत्यादि निगूढत्वादसम्भाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् । इतःप्रभृति गूढार्थप्रतीतिपरालङ्कारलक्षणम् ॥ संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् ॥ ७५॥ इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा कुशाग्रीयबुद्धिभिरिङ्गिताकाराभ्यां संलक्ष्यते, तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्मम् । तत्रङ्गिताद यथापरिसङ्ख्यात्वमाशङ्कय परिहरति-न चेदमित्यादिना । व्यवच्छेद्येति । दैवगत्यादेविषमत्वविधान एव तात्पर्य न वितरनिषेध इति भावः । दैव गत्याद्युत्तरस्यासम्भाव्यत्वेऽसकृत्प्रश्नपूर्वकनिबन्धने च निगूढत्वादिति हेतुनिर्देशः । इतःप्रभृति उत्तरादारभ्य ॥ संलक्षणक्षमाणां तीक्ष्णधियां व्यावृत्त्यर्थं स्थूलमतिभिरित्युक्तम् । कुशाग्रीयबुद्धिभिः कर्तृभिः । इङ्गिताकाराभ्यां हेतुभ्याम् । इंङ्गितं बुद्धिपूर्वचेष्टाविशेषः । आकारोऽबुद्धिपूर्वको विकारः । विटसम्बन्धी सङ्केतकालाभि १. 'यं' मूलपाठः. २. 'स्वात् ।', १. ‘ण यथा - ए', ४. 'स्वमिह', ५. 'तु' क. स. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy