SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९० [सामान्य अलकारसूत्रं "ये कन्दरासु निवसन्ति सदा हिमाद्रे स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुहहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ॥" अत्र हिमाद्रिकन्दरानिवाससामर्थ्यात् प्रतिपन्नेन शैत्येन समुहावितावागन्तुको कम्परोमाञ्चो भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्वादेवं च मीलितेव्यपदेशः ॥ प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ॥ ७१॥ ___ यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यम् अभेदेनाध्यवसायादेकरूपत्वं निबध्यते, तत् समानत्वयोगात् सामान्यम् ! न चेदमपनुतिः। किञ्चिन्निषिध्य कस्यचिदप्रतिष्ठापना । उदाहरणं"मलयजरसविलिप्ततनवो नवहारलताविभूषिताः सेततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । न्तरं तिरोधीयत इत्यर्थः । ये कन्दरास्विति । अत्र कम्परोमान्चलक्षणकार्यतिरोधोनद्वारा भयातेरोधायकस्य शैत्यस्य स्वकण्ठेनानुपादानेऽपि सामर्थ्यात् प्रतीतिरित्याह- अब हिमाद्रीत्यादिना ॥ - समानत्वयोगादिति । गुणसमानत्वयोगात् । यदि प्रस्तुतस्याप्रस्तुतेन गुणसाम्यवशादैकात्म्यं बध्यते, तदा प्रस्तुतमपहनूयेतैव । ततश्च विषयापड्नवेऽपढ्नुतिरित्यपढ्नुतिलक्षणादस्य को विशेष इत्याशझ्याह-न चेदमित्यादिना । मलयजरसेत्यादावुदाहरणे हि मलयजरस १. 'व मो', २. 'तत्वव्य', ३. 'त् । यथा - म' क. ख. पाठ:. . 'धायकद्वा' ख. ग. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy