SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । कमपरमवशं न विप्रकुर्युविभुमपि तं यदमी स्पृशन्ति भावाः || ” २ अत्र विभुवृत्तान्तः प्राकरणिक इतरजनवृत्तान्तमप्राकरणिकमर्थादाक्षिपति । द्वितीयो यथा - 1 - “धृतधनुषि बाहुशालिन शैला न नमन्ति यत् तदाश्वर्यम् । रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥” ४ अत्र शैलवृत्तान्तोऽप्राकरणिको रिपुवृत्तान्तं प्राकरणिकमर्थादारयति । कचिच्च न्यायसाम्यस्य निमित्तं श्लेषेण निर्दिश्यते । यथा “अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो "" विधौ के मूर्ध्नि स्थितवति वयं के पुनरमी ॥ अत्र विधौ वक्र इति श्लिष्टम् । अप्राकरणिकाच्च स्थाणुवृत्तान्तात् प्राकरणिकार्थापतनम् ॥ १७७ तुल्यबलविरोधो विकल्पः ॥ ६४ ॥ मानस्य । इह वाक्यन्यायमूलालङ्कारमध्ये । विभुवृत्तान्तः पशुपतिवृत्तान्तः । आगूरयति, आक्षिपतीत्यर्थः । विधौ वक्र इति श्लिष्टमिति । विधौशब्दस्य वर्णश्लेषवशेनं वक्रभावलक्षणविशिष्टविधिं चन्द्रमोल क्षणार्थद्वितयवाचित्वाद्, वक्रशब्दस्य प्रातिकूल्यानार्जवरूपव्यर्थवृत्तित्वाच्च ॥ तुल्यबलेति । न खलु विरोधसद्भावमात्रे देवदत्तो गच्छति यज्ञदत्तो न गच्छतीत्यादौ गमनागमनयोर्वैयधिकरण्ये विकल्पः, नापि स्नायाद् ५. 'वे' १. 'र्युः प्रभु', २. 'प्र', ३. क. ख. पाठः ६. 'न भा' ख. पाठ:. 'शौर्यशा', ४. 'चिन्न्याय', ७. 'पवद्व्यर्थं क. पाठः. Y
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy